________________
काव्यमाला ।
.. मुख्यगौणलक्ष्यार्थव्यतिरिक्तः प्रतीतिविषयो व्यङ्गयोऽर्थः । स च ध्वन्यते द्योत्यते इति ध्वनिरिति पूर्वाचार्यैः संज्ञितः । अयं च वस्त्वलंकाररसादिभेदात्रिधा । तथा ह्याद्यस्तावत्प्रभेदो मुख्यादिभ्योऽत्यन्तं भिन्नः ।।
स हि वाच्ये विधिरूपे प्रतिषेधरूपो यथा___ 'भम धम्मिअ वीसत्थो सो सुणओ अज मारिओ तेण ।
गोलाणइकत्थकुडङ्गवासिणा दरिअसीहेण ॥' अत्र विस्रब्धो भ्रमेति विधिवाक्ये तत्र निकुञ्ज सिंहस्तिष्ठति त्वं च शुनोऽपि बिभेषि तस्मात्त्वयास्मिन्न गन्तव्यमिति निषेधः प्रतीयते ॥
यदाहुः- रूढः प्रयोजनाद्वापि व्यवहारेऽवलोक्यते' इति ॥ मुख्यगौणलक्ष्या. र्थव्यतिरिक्त इति । अयं भावः-यद्यतो व्यतिरेकेणावभासते तत्ततोऽन्यदिति व्यवहर्तव्यम् । नीलमिव पीताद्वाच्यादिव्यतिरिक्तश्च व्यङ्गयोऽर्थोऽवभासत इति ॥ प्रतीतिविषय इति । अनेन खसंवेदनसिद्धतामाह । तथा च श्रीमदानन्दवर्धनः'प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्य मिवाङ्गनासु ॥' वस्त्वलंकारेति । इह लौकिकालौकिकभेदेनार्थों द्विधा । लौकिकश्च शब्दाभिधाने योग्योऽविचित्रविचित्रात्मतया द्विधा । तत्राविचित्रो वस्तुमात्रम् , विचित्रस्त्वलंकारात्मा। यद्यपि चव्यक्षतायां(?) प्राधान्ये च विचित्रस्यालंकार्यत्वम् , तथापि ब्राह्मणश्रमणन्यायेन तस्यालंकारव्यपदेशः अनयोश्च वस्त्वलंकारयोर्व्यङ्गयतायां यद्यपि न वाच्यत्वम्, तथापि तयोर्विध्यादिरूपत्वात् क्वचन तत्संभवतीति लौकिकत्वम् । अलौकिकस्तु स्वप्नेऽपि वाच्यत्वस्पर्शाक्षमो रसादिरिति ॥ भम धम्मिएति । काचिदविनयवधूर्गोदावरीकूललतागहने प्रच्छन्नकामुकेन सह नादेयपानीयानयनादिव्याजेन गृहान्निर्गत्य सदा रममाणा धार्मिकं पुष्पोच्चयनलताविलोपनादिना विघ्नभूतं संभावयन्ती विदग्धापि मुग्धेव वक्ति । यस्तवास्मद्गृहं प्रविशतो भयमकरोच्च श्वा निर्विचारः । अस्मद्भाग्योदयेन तेन लोकप्रसिद्धन वृत्तेन कृपापात्रमपि श्वानमपश्यता सिंहेनाप्रतिका. रयोग्येन मारित उन्मथितः । न तु बुद्धिपूर्वकं हतः । चिन्त्येकवसतेरनौचित्यायोगात् । न चात्र सिंहस्ते भयकारणम् । यतो गोदावर्या नद्यां न तु सरखत्यादिवत्तद्युक्ते देशे १. 'आदिशब्दाद्भावतदाभासा इत्यादयो गृह्यन्ते' टिप्पणी..
'भ्रम धार्मिक विस्रब्धः स शुनकोऽद्य मारितस्तेन ।
गोदानदीकच्छनिकुञ्जवासिना दृप्तसिंहेन ॥' [गाथा० २१७५] १. 'दृप्तेन' भवेत.