________________
काव्यानुशासनम् ।
यत्कूलं तत्र । न तु ततो दूरे लतागहने दर्शनागोचरे स्थाने वसति सततकृतास्पदस्तेन निर्भयमिदानीं भिक्षाद्यर्थ. [स] चरेति । एवमादौ च विषये यद्यपि रसादिरर्थो व्यङ्गयोऽस्ति तथापि महाराजंशब्दव्यपदेश्य विवाह करण प्रवृत्त सचिवानुयायिराजवदप्रधानमेव गृह्णाति । लतागहनस्थयैवेदमभिधीयते इति व्याख्याने लाक्षणिकोऽयमर्थो भवेत्ततः प्रयोजनांशे व्यङ्गये निषेधो व्यङ्गय इति न संबध्यमागच्छते । इह वासिनेति चाभिधेयः स्यात् । न चात्र निषेधस्य वाच्यत्वं वक्तुं शक्यम् । तथाहि । अगृहीत संकेतस्यार्थप्रतिपत्तेरकरणाद्गृहीतसंकेत एवशब्दोऽर्थप्रतिपादकः । संकेतश्चानन्त्याद्यभिचाराच्च वाक्यार्थ इव वाक्यस्य विशेषरूपे पदार्थे पदस्य कर्तुं न पार्यत इति सामान्य एवासौ आकाङ्क्षायोग्यतासंनिधिवशात्पदार्थानां सामान्यभूतानां समन्वय इति । 'सामान्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हि ' इति । विशेषरूप : - ' विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे' इत्य पदार्थोऽपि वाक्यार्थ उल्लसति । विशेषस्यैव यत्राशब्दार्थत्वं तत्र वस्त्वन्तररूपस्य निषेधस्य वाच्यत्वमिति का कथेत्यभिहितान्वयवादे तावनिर्विवादैव निषेधस्य व्यङ्गयता । येऽप्याहुः – 'अनन्वितार्थ पदमप्रयोज्यम्' इति 'प्रयोगयोग्यं वाक्यमेव तत्र च संकेतो गृह्यत इत्यपरपदार्थान्वित एव पदार्थः संकेतभूः ॥ यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्येवैतानि पदानि निश्चीयन्ते इति पदार्थान्तरमात्रेणान्वितः पदार्थः संकेतगोचरः, तथापि सामान्याव - च्छादितो विशेषरूप एवासौ प्रतिपद्यते । व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्य'न्विताभिधाननये 'वाक्यार्थो न पदार्थ:' इति तन्मतेऽपि सामान्यविशेषरूपः पदार्थः संकेत विषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतोऽसंकेतितत्वादवाच्य एव । यत्र पदार्थः प्रतिपद्यते तत्र दूरेऽर्थान्तरभूत निषेधचर्चा । अनन्वितोऽर्थोऽभिहितान्वये पदार्थान्तरमात्रेणान्वितस्तु अन्विताभिधाने अन्वितविशेषस्त्ववाच्य एवेत्युभयनयेऽप्यपदार्थ एव वाक्यार्थः ॥ यदप्युच्यते- 'नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्ते' इति । तत्र निमित्तत्वं कारकत्वं ज्ञापकत्वं वा । शब्दस्य प्रकाशकत्वान्न कारकत्वं ज्ञापकत्वं त्वज्ञातस्य कथम् । ज्ञातत्वं च संकेतेनैव, स चान्वितमात्रे । एवं च निमित्तस्य नियतनिमित्तत्वं यावन्न 'निश्चितं तावन्नैमित्तिकस्य प्रतीतिरेव कथमिति नैमित्तिकार्थानुसारेण निमित्तानि कल्प्य - ते इत्यविचारिताभिधानम् ॥ ये त्वभिदधति - 'सोऽयमिषोरिव दीर्घदीर्घो व्यापारः ' इति यत्परः शब्दः स शब्दार्थ इति च प्रतिषेधाय वाच्य इति । एतदतात्पर्यज्ञत्वं तात्पर्यवाचोयुक्तेर्देवानां प्रियाणाम् । तथा हि । भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति कारकपदार्थाः क्रियापदार्थेनान्वीयमानाः प्रधानक्रियानिर्वर्तकख क्रियाभिसंवन्धात्साध्यायमानतां प्राप्नुवन्ति । ततश्चादग्धदहनन्यायेन यावदप्राप्तं तावद्विधीयते । यथा ‘रक्तं पटं वयः' इत्यादावेकविधिर्द्विविधिस्त्रिविधिर्वा । ततश्च यदेव विधेयं तत्रैव - तात्पर्यमित्युपात्तस्यैव शब्दस्यार्थे तात्पर्यम् । न तु प्रतीतमात्रे । एवं हि 'पूर्वी धावति।"
१. 'दीर्घदीर्घतरो' काव्यप्रकाशे.
,
२७