________________
काव्यमाला ।
'fasser वक्रेण निश्येव स्मितमम्बुजम्' इंति पाठपरिणामे उपमानापकर्षः ।
' आननेनाकलङ्केन जयतीन्दुं कलङ्कितम्' or युगपदुत्कर्षापकर्षो ।
'अहो विडम्बयत्येषा वदनेन सरोरुहम्' अत्रोत्कर्षापकर्षहेत्वोरनुक्तिः । साम्यं त्वाक्षेपात्सर्वत्र प्रतीयते । लेषव्यतिरेकस्तु संकरालंकारविषय इति तत्रैवोदाहरिष्यते ॥
२७८
विशेषस्य सामान्येन साधर्म्यवैधर्म्याभ्यां समर्थनमर्थान्तरन्यासः। साधर्म्येण वैधर्म्येण वा विशेषो यत्र सामान्येन समर्थ्यते सोऽर्थान्तरस्येव न्यसनमर्थान्तरन्यासः ।
तत्र साधर्म्येण यथा -
'रथस्थमालोक्य रथाङ्गपाणिं स्थाने स्थिता श्रीरिति सोऽभिदध्यौ । वैराणि कार्योपनिबन्धनानि निर्मत्सरा एव गुणेषु सन्तः ॥ वैधर्म्येण यथा
'अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या । पीतभूरिसुरयापि न मेदे निर्वृत्तिर्हि मनसो मदहेतुः ॥'
यथोक्तमेव श्रेयः ॥ संकरालंकारविषयतीति । श्लेषव्यतिरेकयोरन्यत्रापि लब्धसत्ताकत्वादिति भावः । ततश्च तद्भेदा अत्र न प्रदर्शयितुमुचिताः । ' यद्यप्यनुपमचरितस्तथापि तव नाच्युतस्तुलां लभते । स हरिर्नाम्ना देवः स हरिवरस्तुरगनिवहेन ।' इत्यादयस्तु श्लिष्टोक्तियोग्यस्य पृथगुपादाने ये भेदाः संभवति उक्तलक्षणेनैव संगृहीताः, तत्र हि एकस्य पदस्य द्विरुपादानान्न श्लेषः । उपमानात्तूपमेयस्याधिक्यमस्तीति व्यतिरेको भवत्येव ॥ अर्थान्तरस्येवेति । यत्र हेतोर्हेतुमता सह व्याप्तिर्गूढत्वात्कथंचित्प्रतीयते, न तु स्पष्टमवभासते, तत्रार्थान्तरस्येवासमानजातीयस्य वस्तुनो यन्यसनमसावर्थान्तरन्यासः । न तु यद्यत्कृतकं तदनित्यमित्येवंप्रायमित्यर्थः ॥ नन्वन्योक्तिनिदर्शनाभ्यां नायं भिद्यते । तथा हि- 'ऐरावणं स्पृशति - इत्यादावन्योक्तौ विशेषेण महेन्द्रवृत्तान्तेन वाच्येन त्वयुक्तेन कश्चित्सुखं 'शेते इति सामान्यं गम्यमानं समर्थ्यते । तथा 'होइ न गुणाणुराओ' इत्यादी
१. ‘निन्दतीन्दुं कलङ्किनम्' का० प्र०.
१. 'षय इतीति' स्यात्.
"