________________
६ अध्यायः
काव्यानुशासनम् ।
२७१
स्तुत्यै संशयोक्तिः ससंदेहः। स्तुत्यै अलंकारान्तरगर्भीकारेण प्रस्तुतवस्तुवर्णनाथ संशयस्योक्तिनि- . र्णयान्ता अनिर्णयान्ता वा भेदकस्यानुक्तावुक्तौ वा ससंदेहः ।
निदर्शने दृष्टान्तेन दार्टान्तिकं समर्थ्यते, तेनास्य लक्षणस्यातिव्याप्तिः । सत्यम् । उभयत्रापि तत्र समर्थ्यसमर्थकभावो गम्यते किं तु यथार्थान्तरन्यासे न तथा तयोः । अर्थान्तरन्यासे हि समर्थ्यस्य खकण्ठेनोपात्तस्य समर्थनम् । अन्योक्तौ तु न तत्तथा । निदर्शने च यद्यपि खकण्ठेनोपादानं समर्थ्यस्य तथापि न तत्र विशेष प्रति सामान्यस्य समर्थकभावः । अपि तु सामान्यविशेषौ प्रति विशेषस्य । यतो दृष्टान्तस्य विशेषरूपतयैव प्रतिविम्वभावः संगच्छत इति पृथगवस्थित एवायम् ॥ स्तुत्यै इति । स्तुतये यत्संशयवद्वचः प्रयुज्यते तत्र संदेहालंकारसंज्ञा । सह संदेहेन अनिश्चयेन वर्तत इति कृला । त्रिधा खलु संदेहवद्वचो भवति । संदेहस्य प्रतिपादकत्वेन अलंकारान्तरच्छायां गर्भीकृत्यासंदेहेऽपि संदेहस्येव जननेन चेति । संशयश्च शुद्धसंकीर्णमूढभेदात्रेधा । तत्र शुद्धः प्रति. पाद्यो यथा--'वामेक्षणे स्फुरति धीः पुरुषस्य कष्टं स्याद्वा न वेति विदधाति गतागतानि । नार्याः पुनः प्रमदनिर्भररूपमास्ते तन्नास्ति यद्विनिमयादशुभं शुभं वा ॥' अत्र संदेहनिष्ठत्व-7 मेवेति शुद्धः संदेहः । संकीर्णो यथा---'गिरिरयममरेन्द्रेणाद्य निर्मूलपक्षः क्षतगरुदसुरेशैः किं कृतो वैनतेयः । अपरमिह मनो मे यः पितुः प्राणभूतः किमुत वत स एष व्याततायुर्जटायुः ॥' अत्र स्थाणुर्वा पुरुषो वेतिवत्पश्चात्पारमार्थिकेऽपि वस्तुनि परामर्श उदेतीति संकीर्णः संदेहः । यथा किमेष जटायुरिति । पूर्वत्र तु कष्टस्य भविष्यत्वेन भावाभावावुभावपि संदिग्धौ । कदाचन तृतीयस्याप्युपेक्षणीयन्यायेन मध्यरूपस्य प्रादुर्भावसंभावनमित्यनयोर्विवेकः । मूढो यथा—'स्पन्दते दक्षिणं चक्षुः फलकाङ्क्षा न मे क्वचित् । न च मिथ्या मुनिवचः कथयिष्यति किं खिदम् ॥' अत्र न संदेहनिष्टता नापि विद्यमानस्य वस्तुनोंऽशेन परामर्श इति मूढः संदेहः । यथा ह्यगृहीतसंकेतस्यापूर्वपदार्थादर्शने सति किमिदं स्यादिति पदार्थानध्यवसानमित्येवंरूप इत्यर्थः । तदेवं प्रतिपाद्यः संदेहो निदर्शितः ॥ उत्पाद्यो यथा--'व्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः । विषमा भूभृतस्तेभ्यो भयमाशु प्रमादिनाम् ॥' व्यालाः सर्पाः, दुर्जनाश्च । दुरारोहा दुःखोत्कलनीयाः, चिरकालप्रत्यासत्तिलाभाश्च । रत्नान्युपलविशेषाः, गुणवन्तश्च । भूभृतः पर्वताः, राजानश्च । इत्येतस्माद्वचसः प्रतिपत्तुः पर्वतराजविषयः संदेह उपजायते । अलंकारान्तरच्छायागीकारेण जन्यस्तु 'सरोजपने-' इत्यादिना उदाहृतः । एतेषु संदेहवत्सु वचनेषु बहुधा प्रवृत्तेपु प्रथमस्य प्रतिपाद्यसंदेहपक्षस्य रसभावतदाभासालंकारेष्वन्तर्भावः । वितर्कस्य हि व्यभिचारिणः सद्भावादवश्यं क्वचिद्रसेऽङ्गता भवत्यत एव रसादिसद्भावेनान्तरीयकत्वेन तदाभासतापि भवतीति । द्वितीयस्य तु
१. 'ससंदेहा' स्यात्..'