________________
२७७
६ अध्यायः काव्यानुशासनम् ।
उत्कर्षापकर्षहेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्यं व्यतिरेकः। __उपमेयस्य प्राकरणिकस्य यदाधिक्यमर्थादुपमानात्स व्यतिरेकः । स चोत्कर्षापकर्षहेत्वोः क्रमेण युगपद्वोपादाने त्रिविधायामुक्तौ युगपदनुक्तो चैकविधायां चतुर्विधः । पुनश्च साम्यवाचकस्योक्तावनुक्तौ वाष्टभेदः । यथा
'यस्यावर्जयतो नित्यं रिपूनप्युज्वलैर्गुणैः ।
लक्ष्यते नेतरस्येव गाम्भीर्यैकनिधेः स्मयः ॥ अत्र गाम्भीर्येकनिधित्वमुपमेयोत्कर्षहेतुरुक्तः ।
'तुच्छस्यान्यजनस्येव न मयो हन्त लक्ष्यते' इत्यत्रैव पाठे तुच्छत्वमुपमानापकर्षहेतुर्भवति ।
'असिमात्रसहायोऽयं प्रभूतारिपराभवे ।।
नैवान्यतुच्छजनवत्सगर्वोऽयं धृतेनिधिः ॥": अत्रोपमानोपमेयगतौ युगपदुत्कर्षापकर्षहेतू उक्तौ ।
'शीर्णपर्णाम्बुवाताशा कष्टेऽपि तपसि स्थिता ।
समुद्वहन्ती नापूर्वं गर्वमन्यतपखिवत् ॥' । अत्रोत्कर्षापकर्षहेत्वोर्द्वयोरप्यनुक्तिः । एवं साम्योक्तौ चत्वारो भेदाः । साम्यानुक्तौ यथा
'नवीनविभ्रमोद्भेदतरङ्गितगतिः सदा।।
मुखेन सितमुग्धेन जयत्येषा सरोरुहम् ॥' अत्रोपमेयोत्कर्षः । इवादिपदविरहात्तु साम्यस्यानुक्तिः । अत्रैव
यन्त्रणादिति । द्वयोरप्यर्थयोः प्राकरणिकतया विवक्षितत्वादिति भावः ॥ उपमेयस्या- . धिक्यमिति । न तूपमानस्य ॥ यत्तु-क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥' इत्यादावुपमानस्योपमेयादाधिधिक्यमिति केनचिदुक्तम् , तदयुक्तम् । यौवनगतास्थैर्यस्य हि अत्राधिक्यं विवक्षितमिति
१. 'महाधृतिः' का० प्र०. १. 'नितराम्' का० प्र०; 'नित्यम्' सा० द०.