________________
काव्यानुशासनम् ।
१७
अलंकाराणां सामान्यलक्षणमाहअङ्गाश्रिता अलंकाराः ।
रसस्याङ्गिनो यदङ्गं शब्दार्थौ तदाश्रिता अलंकाराः । तेषां च रसस्य सतः क्वचिदुपकारिणः क्वचिदनुपकारिणः । रसाभावे तु वाच्यवाचकवैचित्र्यमात्रपर्यवसिता भवन्ति ॥
तत्र रसोपकारप्रकारानाह—
तत्परत्वे काले ग्रहत्यागयोर्नातिनिर्वाहे निर्वाहेऽप्यङ्गत्वे रसोपकारिणः ।
अलंकारा इति वर्तते । तत्परत्वं रसोपकारकत्वेनालंकारस्य प्रवेशः, न बाधकत्वेन, नापि ताटस्थ्येन ॥
व्यवहियते । तथा शब्दार्थयोर्माधुर्यादय इत्यर्थः ॥ अङ्गाश्रिता इति । ये त्वङ्गिनि • रसे भवन्ति ते गुणाः । एष एव गुणालंकारविवेकः ॥ एतावता -- 'शौर्यादिसदृशा गुणाः, केयूरादितुल्या अलंकाराः' इति विवेकमुक्त्वा 'संयोगसमवायाभ्यां शौर्यादीना - मस्ति भेदः । इह तूभयेषां समवायेन स्थितिरित्यभिधाय ' तस्माद्गडरिका प्रवाहेण गुणालंकारभेदः' इति भामह विवरणे यद्भोद्भटोऽभ्यधात्, तन्निरस्तम् । तथा हि । कवितारः संदर्भेष्वलंकारान्व्यस्यन्ति न्यस्यन्ति च न गुणान् । न चालंकृतीनामपोद्धाराहाराभ्यां वाक्यं दुष्यति पुष्यति वा । तत्र शब्दालंकारापोद्धरणं यथा—'अलंकृतजटाचक्रं चारुचन्द्रमरीचिभिः । मृडानीदत्तदेहार्धं नमामः परमे - श्वरम् ॥' यथा च - 'अलंकृतजटाचकं तरुणेन्दुमरीचिभिः' इति । अर्थालंकारापोद्धरणं यथा—‘श्यामां स्मितासितसरोजदृशं करायैरिन्दौ विभूषयति वालमृणालकल्पैः । आरेभिरे रचयितुं प्रतिकर्म नार्यः कार्याणि नायतदृशोऽवसरे त्यजन्ति ॥' यथा च'श्यामां स्मितासितसरोजदृशं करायैरिन्दौ विभूषयति केलिचकोरलेयैः' इति । अर्थालंकाराहरणं यथा— नीलाश्मरश्मीति । यथा च - 'नीलाश्मरश्मिपटलानि महेभमुक्त फूत्कारसीकरविसृञ्जि मृगाक्षिसानौ' इति । गुणानामपोद्धाराहारौ तु न संभवत इति । तथा 'काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशय हेतवस्त्वलंकारा:' इति वामनेन यो विवेकः ः कृतः सोऽपि व्यभिचारी । तथा हि - ' गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः' इत्यादौ प्रसादश्लेषसमतामाधुर्य सौकुमार्यार्थव्यक्तीनां गुणानां सद्भावेऽपि काव्यव्यवहाराप्रवृत्तेः । 'अपि काचिच्छूता वार्ता तस्यन्निद्यविधायिनः । इतीव प्रष्टुमायाते तस्याः कर्णान्तमीक्षणे ॥' इत्युत्प्रेक्षालंकारमात्रादविवक्षित त्रिचतुरगुणात्काव्यव्यवहारदर्शनात् । तस्माद्यथोक्त एव गुणालंकारविवेकः श्रेयानिति । गुणाश्च त्रय
३
ܐ