________________
८ अध्यायः ]
वाक्यत्वम्, दुष्करचित्रादिसर्गत्वम्, स्वाभिप्रायखनामेष्टनाममङ्गलाङ्कितसमाप्तित्वम्, इति ।
काव्यानुशासनम् ।
३३५
अर्थवैचित्र्यं यथा— चतुर्वर्गफलोपायत्वम्, चतुरोदात्तनायकत्वम्, रसभावनिरन्तरत्वम्, विधिनिषेधव्युत्पादकत्वम्, सुसूत्र संविधानकत्वम्, नगराश्रमशैल सैन्यावासार्णचादिवर्णनम्, ऋतुरात्रिंदिवार्कास्तमय चन्द्रोदयादिवर्णनम्, नायकनायिका कुमारवाहनादिवर्णनम्, मन्त्रदूतप्रयाणसंग्रामा
यथा हरविलासे --' इतस्ततो भषन्भूरि न पतेत्पिशुनः शुनः । अवदाततया किं च न भेदो हंसतः सतः ॥' दुष्करचित्रादिसर्गत्वमिति । आदिग्रहणेन यमकश्लेषादयो गृह्यन्ते । तेच किरातार्जुनीयादौ दृश्यन्त एव ॥ स्वाभिप्रायेत्यादि । तेष्वभिप्रायाङ्कता यथा - धैर्य मायुराजस्य, उत्साहः सर्वसेनस्य, अनुरागः प्रवरसेनस्येति । खनामाङ्कता यथा - राजशेखरस्य हरविलासे । इष्टनामाङ्कता यथा - लक्ष्म्यङ्कता किराते भारवेः, श्रयङ्कता शिशुपालवधे माघस्य । मङ्गलाङ्कता यथा —— अभ्युदयः कृष्णचरिते, जय ऊषाहरणे, आनन्दः पञ्चशिखशूद्रककथायाम् इति । चतुर्वर्गफलोपायत्वमिति । अनेन चत्वारो वर्गा धर्मार्थकाममोक्षाः त एव व्यस्ताः समस्ता वा फलं तस्योपायतया महाकाव्यं ज्ञापयन् मुक्तकादिभ्यो भेदमाचष्टे। चतुरोदात्तनायकत्वमिति । अनेन कथाशरीरव्यापिनो नायकस्य धर्मार्थकाममोक्षेषु वैचक्षण्यमभिदधान आशयविभूत्योरप्युत्कर्षमभिदधाति । रसभावनिरन्तरत्वमिति । अनेन रसग्रहणेनापि तत्कारणभूतानां भावानां परिग्रहे पृथग्भावग्रहणेन रसभावानां परस्परं कार्यकारणभावमभिदधद्रसेभ्यो भावाभावेभ्यो रसा रसेभ्यश्च रसा इति नैरन्तर्यस्य रसभावसाध्यत्वेन भोजनस्येवैकरसस्य प्रवन्धस्यापि वैरस्यमपाकरोति । विधिनिषेधव्युत्पादकत्वमिति । अनेन गुणवतो नायकस्योत्कर्षप्रकाशनेन दोषवतश्चोच्छेदप्रदर्शनेन जिगीषुणा गुणवतैव भाव्यं न दोषवतेति व्युत्पादयति । सुसूत्र संविधानकत्वमिति । अनेन प्रोक्तलक्षणाः पदार्थास्तथा निबन्धनीया यथा प्रबन्धस्य शोभायै भवन्तीति कवीन् शिक्षयति । नगराश्रमेत्यादिना देशप्रशंसामुपदिशति । नगरवर्णनं यथा हरिविजय रावणविजय-शिशुपालवध-कुमारसंभवादौ । आश्रमवर्णनं यथा रघुवंश - किरातार्जुनीयादौ । शैलवर्णनं किरातार्जुनीयादौ । सैन्यावासवर्णनं माघे । अर्णववर्णनं सेतुबन्धादौ । ऋत्वित्यादिना कालावस्थापवर्णनं लक्षयति । तत्र ऋतुवर्णने शरवसन्तग्रीष्मवर्षादिवर्णनानि सेतुबन्ध-हरिविजयरघुवंश - हरिवंशादौ । रात्रिवर्णनं किरातार्जुनीय - कुमारसंभव - शिशुपालवध - हयग्रीववधादौ । दिवसवर्णनं प्रभातपूर्वाह्णमध्याह्नापराह्नवर्णनानि शिशुपालवध - किरातार्जुनीयादौ । अर्का - स्तसमयवर्णनं कुमारसंभव-हरिविजय-रावणविजय -सेतुवन्धादौ । चन्द्रोदयवर्णनं कुमारसंभवकिरातार्जुनीय-शिशुपालवध -सेतुबन्धादाविति । नायकेत्यादिना पात्रविशेषाभिनन्दनं सूचयति । तत्र नायकवर्णनं हरिविजय रावणविजय जानकीहरण-रघुवंशादौ । नायिकावर्णनं
1