SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २४४ काव्यमाला। तथा ह्यत्र पूर्णेन्दुसदृशं वदनमित्ययमर्थः प्रतीयते, न त्वीषदपरिसमाप्तः पूर्णेन्दुरिति । यथा वा 'सू-यति सुधारश्मिमनाथति मृतायते । मृतस्तु कान्ताविरहे स्वर्गेऽपि नरकीयति ॥' .अत्र नामधातुवृत्तौ कर्माधारयोः क्यनि कर्तुः विपि क्यङि च इव-लोपः। द्विलोपे यथा 'ढुण्डल्लिन्तु मरीहिसि कण्टयकलियाई केयइवणाई । मालइकुसुमसरित्थं भमर भमन्तो न पाविहिसि ॥' अत्र कुसुमसदृक्षमिति समासे धर्मस्योपमानस्य च लोपः । तथा 'परिपन्थिमनोराज्यशतैरपि दुराक्रमः । संपराये प्रवृत्तोऽसौ राजते राजकुञ्जरः ॥' अत्र समासे धर्मस्येवस्य च लोपः । निरवयवा चेति सर्वस्मिन्नाश्रये समाप्ता । द्रव्यमपि यत्तया संवद्धं तत्सर्वतः पूर्णवात्स. माप्तमेव । तस्मादसंभव एवास्याः । सामानाधिकरण्यमपि पूर्णेन्दुकल्पं वदनमिति वदनशब्देन प्राप्नोति तस्यार्थान्तरवाचित्वानैष दोषः । इह शब्दादुच्चरितद्वयं प्रतीयते । शब्दार्थों जातिव्यं वा । अभिधेयसंबन्धेन वा अशब्दार्थभूता अपि गुणाः । यत्र चैतदुभयमस्ति तत्र परिसमाप्तिः । यत्र त्वन्यतरनास्ति तत्रेषदपरिसमाप्तिः । तत्रेह पूर्णेन्दुशब्दः पूर्णेन्दुजातिहीने आह्लादना दिगुणहीने वा द्रव्ये वर्तत इत्युपपद्यते । ईषदपरिसमाप्तिः। सामानाधिकरण्यमुपपद्यत एव कथं यदा तावत्पूर्णेन्दुजातिहीने केनचिसाधर्म्यण वदनशब्दाभिधेयेऽर्थे वर्तिवात्पूर्णेन्दुशब्दः कल्पप्प्रत्ययमुत्पादयति तदा वदनशब्देन सामानाधिकरण्यं भवति । उभयोरेकार्थवृत्तित्वात् । यदा तु गुणहीने पूर्णेन्दुजातीय एव पूर्णेन्दुशब्दस्तदापि यथा गौर्वाहीनक इति । सामानाधिकरण्यं तथा भवति । गुणहीनो हि पूर्णेन्दुः पूर्णेन्दुकल्पशब्देनोच्यते तेन च तुल्यं वदनमिति तदपि १. 'ढुण्डज्जन्त' का० प्र०. २. 'अन्वेषयन्मरिष्यसि कण्टककलितानि केतकीवनानि । मालतीकुसुमसदृक्षं भ्रमर भ्रमन्नपि न प्राप्स्यसि ॥' [इति च्छाया ।]
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy