________________
काव्यमाला।
यथा
'शत्रुच्छेददृढेच्छस्य मुनेरुत्पथगामिनः ।
रामस्यानेन धनुषा देशिता धर्मदेशना ॥ अत्र 'भीष्मेण भार्गवो जितः' इति व्यङ्गयस्य 'देशिता धर्मदेशना' इत्यनया भङ्गया भणनम् ॥ विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः ।
प्रकृतस्यार्थस्य विशेषवर्णनेच्छया भेदस्य व्यत्ययोऽभेदाभिधानं यत्तदतिशयाभिधानादेकातिशयोक्तिः ।
यथा
'सुधाबद्धग्रासैरुषवनचकोरैरनुसृतां
किरज्योत्स्लामच्छां लवलफलपाकप्रणयिनीम् । उपप्राकाराग्रं प्रहिणु नयने तर्कय मना
गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥' अत्र मुखचन्द्रयोभैदेऽप्यभेदः ॥
तानुसंधेयेति । तर्हि यत्र प्रकरणमेव किंचिनास्ति तत्र कोऽलंकारः । यथा-'निरतण्ड? दुरारोहम्-' इति । उच्यते । तत्रोभयोरलंकारयोरन्यतरपरिग्रहेण दोषः, नापि साधकं प्रमाणम्, तत्र संकरालंकारो वक्ष्यते । अत्र च शठतरपोटापाटलयोरन्यतरस्याः प्राकरणिकत्वाभावान ज्ञायते । किमियं समासोक्तिरुतान्योक्तिरिति संकरालंकार एव । अन्ये त्वाहुः-यत एव प्रकरणापरिज्ञानमत एवात्र प्राधान्येन पाटलोपवर्णने क इव वस्तुपरिपोष इत्यन्यपरत्वे प्रवृत्तिनिवृत्ती प्रत्युपदेशाय शास्त्र मिव श्लोकाः कल्पन्त इति समासोक्तिपरिग्रहे कुतो दोषाभावः । तस्मादन्योक्तिरेवेयमिति ॥ व्यङ्गयस्येति योग्यतया निर्देशः । अनया भङ्गयाभणनमिति । देशिताधर्मदेशनेति भङ्गयन्तररचितशब्दरित्यर्थः । तेन यद्भङ्गयन्तरेणोच्यते तद्वयङ्गयम् । यथाप्येकघनरूपतात्मकप्रकारेण व्यङ्ग्यं प्रतीयते, न तथा वक्तुं शक्यते । क्रमभाविविकल्पप्रभवानां शब्दानां तथाभिधानशतेरभावात् । यथा गवि शुक्ले चलति दृष्टे गौः शुक्लश्चल इति विकल्पो यदेव दृष्टमभ्यासपाटवापेक्षी तदेव विकल्पयति न तु यथादृष्टम् । अशेषविशेषावच्छिन्नखलक्षणाकारतयानुभवस्योत्पत्तेः । तथा अभिन्नासंसृष्टत्वेन दृष्टं भेदसं. गर्गाभ्यां विकल्पयति । निरंशस्य वस्तुनो भेदसंसर्गयोरभावात् । तौ हि विकल्पस्यैव व्यापारः । स ह्यभिन्नमपि वस्तु गौः शुक्लश्चल इत्येवं भिनत्ति । भिन्नमपि पदार्थजात. मयं गौरयमपि गौरित्येवं संसृजति ॥ अभेदाभिधानमिति । गोण्या वृत्त्येत्यर्थः ।।