________________
काव्यमाला।
तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥ तदेतद्गीतादिसाधारणमिति विशिनष्टि-परमार्थो निःश्रेयसं तदभिधानशीलां परमार्थाभिधायिनीम् । द्रव्याद्य नुयोगानामपि पारम्पर्येण निःश्रेयसप्रयोजनत्वात् । तथा सर्वेषां सुरनरतिरश्चां विचित्रासु भाषासु परिणतां तन्मयतां गतां सर्वभाषापरिणताम् । एकरूपापि हि भगवतोऽर्धमागधीभाषा वारिदविमुक्तवारिवदाश्रयानुरूपतया परिणमति । यदाह-'देवा दैवीं नरा नारी शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तरैश्ची मेनिरे भगवद्विरम् ॥' न ह्येवंविधभुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यः कर्तुम् ॥ . अथ प्रेक्षावत्प्रवृत्त्यङ्गं प्रयोजनं वक्तुं तत्प्रस्तावनामाह
शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः। तासामिदानी काव्यत्वं यथावदनुशिष्यते ॥२॥ शब्दानुशासने 'सिद्धहेमचन्द्राभिधाने' । विवेचिता असाध्वीभ्यो वाग्भ्यः पृथकृताः । इदानीं शब्दानुशासनादनन्तरं तासां वाचां काव्यत्वं काव्यीभावो यथावत्तात्त्विकेन रूपेणानुशिष्यते । वाचां हि साधुत्वे निश्चिते सुकरः काव्योपदेशः । अनेन शब्दानुशासन-काव्यानुशासनयोरेककर्तृकत्वं चाह । अत एव हि प्रायोगिकमन्यैरिव नारप्स्यते। शब्दानुशासनेनैव चरितार्थत्वात् ॥
शास्त्रप्रयोजनमुक्त्वा अभिधेयप्रयोजनमाहकाव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च ।
द्रव्याद्यनुयोगानामपीति । इहानुयोगश्चतुर्धा । आचरणकरणधर्मकथागणितद्रव्यभेदात् । तत्राद्यस्य सम्यग्ज्ञानदर्शनपवित्रिते नवकर्मानुपादानातीतकर्मनिर्जरारूपे संयमतपसी प्रतिपाद्ये इति सर्वकर्मविमोक्षलक्षणमोक्षपरत्वात्परमार्थाभिधायित्वं प्रतीतमेव । शेषाणां तु पारम्पर्येण द्रव्यस्य चोपायत्वेन प्रधानतया विवक्षितत्वात्पश्वानुपूर्व्यादावुपदेशः । तथा हि । नयप्रमाणवलेन दुर्णयतिरस्कारात्स्याद्वादाधीनं सकलभावानामर्थक्रियाकारित्वलक्षणं सत्त्वं प्ररूप्यते । चेतनाचेतनरूपसकलद्रव्याणां योनयश्चेति वस्तुतत्त्वनिरूपणेन द्रव्यस्य गणितवलेन सुरादीनां सर्वमानायूंषि चन्द्राद्युपरागादयश्च निश्चीयन्ते इत्यायुरादिज्ञानेन गणितस्य वैराग्योपजननमिति वृत्तं प्रश्रूयते । इत्यवदात