________________
काव्यमाला।
आचार्यहेमचन्द्रविरचितं
काव्यानुशासनम् । खोपज्ञालंकारचूडामणिसंज्ञकवृत्तिसमेतम् ।
पत॥
प्रथमोऽध्यायः । 'प्रणम्य परमात्मानं निजं काव्यानुशासनम् ।
आचार्यहेमचन्द्रेण विद्वत्प्रीत्यै प्रतन्यते ॥ ग्रन्थारम्भे शिष्टसमयपरिपालनाय शास्त्रकारः समुचितेष्टदेवतां प्र_णिधत्ते
अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् ।
सर्वभाषापरिणतां जैनी वाचमुपास्महे ॥१॥ । रागादिजेतारो जिनास्तेषामियं जैनी जिनोपज्ञा । अनेन कारणशुद्ध्यो-पादेयतामाह । उच्यते इति वाक्, वर्णपदवाक्यादिभावेन भाषा द्रव्यपरि
णतिस्तामुपास्महे । उपासनं योगप्रणिधानम् । अकृत्रिमखादून्यनाहार्यमाधुर्याणि पदानि नामिकादीनि यस्यां सा तथोक्ता । स्वच्छस्वादुप्रभृतयो हि गुणमात्रवचना अपि दृश्यन्ते । अथ वा अकृत्रिमाण्यसंस्कृतान्यत एव स्वादूनि मन्दधियामपि पेशलानि पदानि यस्यामिति विग्रहः। उक्तं हि—'बालस्त्रीमूढमूर्खाणां नृणां चारित्रकाशिणाम् । अनुग्रहार्थ
विवरीतुं क्वचिदृब्धं नवं संदर्भितुं क्वचित् ।
काव्यानुशासनस्यायं विवेकः प्रवितन्यते ॥ १. वृत्तिसमेतस्यैव मूलग्रन्थस्य नाम काव्यानुशासनमितीति प्रतीयते. काव्यानुशासनपदमेव वा खव्याख्यावाचकम्.