________________
काव्यानुशासनम् । अभिधानन्तरं च यद्यप्यन्वयप्रतिपत्तिनिमित्तं तात्पर्यशक्तिरप्यस्ति तद्विषयस्तात्पर्यलक्षणार्थोऽपि, तथापि तौ वाक्यविषयावेवेति नात्रोक्तौ ॥
वक्रादिवैशिष्टयादर्थस्यापि व्यञ्जकत्वम् । वक्तप्रतिपाद्यकाकुवाक्यवाच्यान्यासत्तिप्रस्तावदेशकालचेष्टादिविशेषवशादर्थस्यापि मुख्यामुख्यव्यङ्गयात्मनो व्यञ्जकत्वम् ॥ .. वक्तृविशेषाद्यथा' ' 'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गहे दास्यसि
प्रायो नास्य शिशोः पिताद्य विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं
नीरन्ध्राः पुनरालखिन्तु जरठच्छेदा नलग्रन्थयः ॥' अत्र चौर्यरतगोपनं गम्यते। 'प्रतिपाद्यविशेषाद्यथा'निःशेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा
वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥'
कृतास्मीति लाघवमात्मनि ग्रहीतुं न युक्तम् । प्रत्युतायं बहुमानो यतो रोषे कुपिता पादपतनादि लभख इति । सहख शोभस्वेदानीमिति सखीविषयं सौभाग्यख्यापनं व्यङ्गयम् । अद्येयं तव प्रच्छन्नानुरागिणी हृदयवल्लभा इत्थं रक्षिता । पुनः प्रकटदशनच्छददंशनविधिरत्र न युक्त इति तच्चौर्यकामुकविषयं संबोधनं व्यङ्गयम् । इत्थं मयैतदपद्भुतमिति खवैदग्ध्याख्यापनं तटस्थविदग्धलोकविषयं व्यङ्ग्यमिति ॥ ताविति । सा च स च तौ । अत्रेति । शक्तिमध्येऽर्थमध्ये च ॥ दृष्टिं हे प्रतिवेशिनीति । काचिद्युवतिः परपुरुषसंभोगानुभवेप्सया संकेतस्थानं व्रजन्ती खप्रवृत्तिप्रयोजनं विशिष्टसंकेतस्थानाधारं परपुरुषसंभोगात्मकं तथा संभोगचिह्नानि नखरदनक्षतानि गात्रसंलग्नतया शङ्कयमानाविर्भावानि यथाक्रमं भर्तृपिपासाक्षमनादेयसरसपानीयानयनेन चिरच्छिन्ननलग्रन्थिपुरुषजर्जरप्रान्तजनिध्यमाणेन च गात्रगतविकारविशेपोद्गमेनापहुत्याभिधत्ते । तस्याश्चासाध्वीत्वेऽवगते व्यङ्ग्यप्रतीतिरिति ॥ निःशेषेति । च्युतं चन्दनं न तु क्षालितम् । संमृष्टो न तु किंचिन्मृष्टः । दूरमनञ्जने निकटे तु साञ्जने ।