________________
काव्यमाला |
६
1
तं वाप्सराः स्मरवती चकमे किमन्यदत्रोवेशी स्मितवशीकृतशक्रचेताः ॥' श्रुत्यर्थस्मरणात्स्मृतिः । यथा - 'बहुर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना । संभावितैकदेशेन देयं यदभियुज्यते ॥' तन्नैपुण्यं यथा - 'हंस प्रयच्छ मे कान्तां गतिस्तस्याश्च या हृता । संभावितैकदेशेन देयं यदभियुज्यते ॥' वेदाख्यानोपनिबन्धनप्रायं पुराणम् । यथा'हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत । भयभ्रान्तैः सुरैश्चके त्रिसंध्यं त्रिर्दिशे नमः ॥' तन्नैपुण्यं यथा - 'स संचरिष्णुर्भुवनत्रयेऽपि यां यदृच्छयाशिश्रियदाश्रयः। श्रियाम् | अकारि तस्यै मुकुटोपलस्खलत्कारैस्त्रिसंध्यं त्रिदशैर्दिशे नमः ॥ पुराणप्रति - भेद एवेतिहासः । यथा - ' न स संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालि पथमन्वगाः ||' तन्नैपुण्यं यथा - 'मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वः समयो विमृश्यताम् । जगजिघत्सातुरकण्ठपद्धतिर्न वालिनैवाहिततृप्तिरेककः ॥' आप्तवचनमागमः । तत्र शैवागमनैपुण्यं यथा --- 'घोरघोरतरातीत ब्रह्मविद्याकलातिगः । परापदपदव्यापी पायाद्वः परमेश्वरः ॥' बौद्धागमनैपुण्यं यथा— 'क'लिकलुषकृतानि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः । मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनीं प्रयान्तु ॥' एवमागमान्तरेष्वपि ॥ तर्कः षट्प्रकारः तत्रार्हतो यथा - शरीरपरिमाण आत्मा । अन्यथा शरीराफल्यमात्माफल्यं वा । तन्नै - पुण्यं यथा— 'शरीरमात्रमात्मानं ये विदन्ति जयन्ति ते । तच्चुम्बनेति ( ? ) यज्जातः सर्वाङ्गपुलकोऽस्य मे ॥' बौद्धीयो यथा- विवक्षापूर्वी हि शब्दास्तामेव विवक्षां सूचयेयुः । तन्नैपुण्यं यथा - ' भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां वलात्परिचुम्वति । न न न न म म मा मा स्प्राक्षीर्निषेधपरं वचो भवति शिथिले मानग्रन्थौ तदेव विधायकम् ॥' लौकायतिको यथा-भूतेभ्यश्चैतन्यं मदशक्तिवत् । तन्नैपुण्यं यथा - 'बहुविधमिह साक्षिचिन्तकाः प्रवदन्त्यन्यमितः कलेवरात् । अपि मदतिहिते (?) च चिन्तकाः प्रलयं यान्ति सहैव चिन्तया ॥' सांख्यीयो यथा--' नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः ॥' तन्नैपुण्यं यथा - 'य एते यज्वानः प्रथितमहसो येऽप्यवनिपा मृगक्षो(गाक्ष्यो ) याश्चैताः कृतमपरसंसारकथया । अभी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो । जगत्येवंरूपा विलसति मृदेषा भगवती ॥' न्यायवैशेषिकीयो यथा—स किंसामग्रीक ईश्वरः कर्तेति पूर्वपक्षे निरतिशयैश्वर्यस्य कर्तृत्वमिति सिद्धान्तः । तन्नैपुण्यं यथा—‘किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति कि- 1 मुपादानमिति च । अतक्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥' नाट्यशास्त्रनैपुण्यं यथा --- ' आतन्वत्सरसां स्वरूपरचनामानन्दिविन्दूद्वयं भावग्राहि शुभप्रवेशकगुणं गम्भीरगर्भस्थिति । उच्चैर्वृत्तिसपुष्करव्यतिकरं संसारविष्कम्भकं भिद्याद्वो भरतस्य भाषितमिव ध्वान्तं पयो यामुनम् ॥' अर्थ
१. 'निहिते' इति भवेत्.
"