SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३०४ काव्यमाला। उपचारावहित्थाभ्यामानुकूल्यौदासीन्याभ्यां संतर्जनघाताभ्यां प्रौढाधीराद्याः। प्रौढाधीराद्यास्तिस्रोऽपि यथासंख्यमुपचारावहित्थादिद्विकत्रयेण क्रोधिन्यो भवन्ति । . तत्र धीरा प्रौढा सोपचारा यथा 'एकत्रासनसंगतिः परिहृता प्रत्युद्गमाढूरत स्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविग्नितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके ___ कान्तं प्रत्युपचारतश्चतुरयो कोपः कृतार्थीकृतः ॥' सैव सावहित्था यथा'वरं भ्रूभङ्गास्ते प्रकटितगुरुक्रोधविभवा वरं सोपालम्भाः प्रणयमधुरा गद्गदगिरः । वरं मानो येन प्रसभजनितोऽनादरविधि ने गूढान्तःकोपा कठिनहृदये संवृतिरियम् ॥ प्रौढा धीराधीरानुकूला यथा'यत्पाणिर्न निवारितो निवसनग्रन्थि समुद्रन्थय न्भ्रूभेदो न कृतो मनागपि मुहुर्यत्खण्ड्यमानेऽधरे । यन्निःशङ्कमिहार्पितं वपुरहो पत्युः समालिङ्गने मानिन्या कथितोऽनुकूलविधिना तेनैव मन्युर्महान् ॥ . सैवोदासीना यथा-- 'आयस्ता कलहं पुरेव कुरुते न संसते वाससो भन्मभूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे । अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ।। १. 'चतुरया' स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy