________________
२७४
काव्यमाला।
यथा-- 'उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥'
अत्र निशाशशिनोरुपमेययोरुपोढरागादिसंश्लिष्टविशेषणबलान्नायकयोरुपमानयोः प्रतीतिः ॥
तीयमानोपमाखरूपं नातिवर्तत इत्युपमैवेष्यते । हन्त तर्हि रूपकापहृत्यप्रस्तुतप्रशंसादयोऽपि पृथङ वक्तव्याः । तत्राप्युपमानोपमेयभावप्रतीतेरुपमैवैकालंकारो वाच्यों नालंकारान्तरम् । यदाह वामनः-'प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः' इति ॥ अथ रूपकादिषु तत्त्वारोपादिलक्षणं विशेषमङ्गीकृत्य रूपकादिव्यवहारः प्रवर्त्यते । तर्हि सहोक्त्यादावपि सहार्थसामर्थ्यावसितसाम्यसमन्वयो विशेषः समस्तीति सहोक्त्यादिभिः किमपराद्धमित्यलं बहुना ॥ उपोढरागणेति । उपोढो धृतो रागः सांध्योऽरुणिमा, प्रेम च येन । विलोलास्तारका ज्योतींषि, नेत्रविभागाश्च यत्र । तथेति झटित्येव, प्रेमरभसेन च । गृहीतमाभासितम् , परिचुम्बितुमाकान्तं च । निशाया मुखं प्रारम्भः, वदनकोकनदं च । यथेति । यथा झटितिग्रहणेन, प्रेमरभसेन च । तिमिरं च अंशुकाश्च सूक्ष्मा अंशवस्तिमिरांशुकं र. श्मिशवलीकृतं तमःपटलम् , तिमिरं वांशुकं नीलजालिका नवोढा प्रौढवधूचित्ता । नतु तिमिरमेवांशुकमिति व्याख्येयम् । एकविषयरूपकत्वापत्तेः । रागाद्रक्तवात्संध्याकृतात् , तदनन्तरं प्रेमरूपाच्च हेतोः । पुरोऽपि पूर्वस्यां दिशि, अग्रे च । गलितं प्रशान्तम् , पतितं च । तया रात्र्या करणभूतया । समस्तं मिश्रितमुपलक्षणत्वेन वा । न लक्षितं रात्रिप्रारम्भोऽसौ इति न ज्ञातम् । तिमिरशवलेतांशुदर्शने हि रात्रिमुखमिति लोकेन लक्ष्यते, न तु स्फुटे आलोके । नायिकापक्षे तु तयेति कर्तृपदं रात्रिपक्षेऽपिशब्दो लक्षितमित्यस्यानन्तरम् । अत्र च नायकेन पश्चाद्गतेन चुम्बनोपक्रमे पुरो नीलांशुकस्य गलनं पतनम् । यदि वा पुरोऽग्रे तथा गृहीतं नायकेन मुखमिति संवन्धः । एतस्याश्च समासोक्तेर्न श्लेषमन्तरेण विविक्तविषयता उपलभ्यते इति श्लेषेण सह संकराशङ्का न कार्या । येषां ह्यलंकाराणां विविक्तविषयतयाप्यात्मलाभः संभवति तेषामेव परस्परसंकीर्यमाणतायां संकरता युक्ता । यथा विरोधव्यतिरेकयोः श्लेषस्य च । श्लेषाभावेऽपि हि ‘एकस्यामेव तनौ-' इत्यादौ विरोधो ‘यस्यावर्जयतो नित्यम्' इत्यादौ व्यतिरेकश्च दृश्यते । विरोधव्यतिरेकाभावे च 'असावुदयमारूढः' इत्यादौ श्लेषश्चेति । भवतु विरोधश्लेषयोः श्लेषव्यतिरेकयोश्च संकरत्वम् । समासोक्तिस्तु समानविशेषणाभिधायिभिः श्लेषपदैरेवात्मानं प्रतिलभत इति नास्या विविक्तो विषय उपलभ्यते । शेषापवादेनेवास्याः प्रवृत्तेरिति ॥ नायकयोरिति ।
१. 'लितांशु' इति स्यात् ; 'संवलितांशु' ध्वन्यालोकलोचने.