________________
६ अध्यायः ]
काव्यानुशासनम् ।
२७३
त्वेन न वाच्याः । विरोध एवान्तर्भावात् । उक्तिवैचित्र्यमात्राद्वेदे च
लक्षणकरणेऽलंकारानन्त्यप्रसङ्गः ॥
सहार्थवलाद्धर्मस्यान्वयः सहोक्तिः ।
धर्मस्य क्रियागुणलक्षणस्य सहार्थसामर्थ्याद्योऽन्वयः प्रतिपाद्यतेऽर्थादनेकेषु वस्तुषु सा सहोक्तिः ।
क्रियालक्षणा यथा—
'रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्रादवधूय तथां सहोत्थितः सैनिकहर्षनिःखनैः ॥'
गुणलक्षणा यथा
-
'सह दीर्घा मम श्वासैरिमाः संप्रति रात्रयः । पाण्डुराश्च ममैवाङ्गैः सार्धं ताश्चन्द्रभूषणाः ॥'
श्लिष्टविशेषणैरुपमानधीः समासोक्तिः । श्लेषवद्भिरुपमेयविशेषणैर्योपमानस्य प्रतीतिः सा समासेन संक्षेपेणार्थद्वयकथनात्समासोक्तिः ।
वाच्या इति ॥ रघुर्भृशमिति । अत्र रघुगता पतनक्रिया शाब्दी । अश्रुगता तु सहार्थसामर्थ्यादवसीयते ॥ एवं गुणोदाहरणेऽप्यूह्यम् । अत्राभिधाव्यापाराद्धर्मा नोभयान्वंयिनः प्रतीयन्ते, प्राकरणिकत्वाप्राकरणिकत्वाभ्यां चोपमानोपमेयभावः, तेनास्याः सहोक्तर्नोपमादावन्तर्भावः । तथा ह्युपमायामुभयोरुपमानोपमेययोरनुयायित्वं धर्माणामिव वत्याद्यभिधाव्यापारात्प्रतीयते, इह तु तादृशोऽभिधाव्यापारो नो - पलभ्यते तेनात्रोपमात्वाभावः ॥ कश्चित्तु – 'समासोक्तिः सहोक्तिश्च नालंकारतया मता । अलंकारान्तरत्वेन शोभाशून्यतया तथा ॥' इति सहोक्तिरलंकारो न भवतीति प्रतिपादयति । तत्र शोभाशून्यत्वं हृद्यत्वं तत्र चोपमादयोऽप्यलंकारा न भवन्तीति सर्वसंमतमेव । अहृद्यत्वे च शिष्येण सहोपाध्यायः पठति, पुत्रेण सह पिता तिष्ठतीत्यादौ सहो -- किर्मा भवतु । 'सेह दिअसनिसाहिं दीहरा सासदण्डा सह मणिवलएहिं वाहधारा गलन्ति । तुह सुहअ विओए तीए खेम्विरीए सह य तनुलदाए दुब्बला जीविदासा ॥' इत्यादौ तु हृयत्वे किमिति नेष्यते ॥ अथ तत्र परस्परसाम्यसमन्वयो मनोहारितानिबन्धनमिति प्र
१. 'सह दिवस निशाभिर्दीर्घाः श्वासदण्डाः सह मणिवलयैर्वाष्पधारा गलन्ति । तव सुभग वियोगे तस्या उद्वेगशीलायाः सह च तनुलतया दुर्बला जीविताशा ॥ ' [इति च्छाया ].
२. 'तीअ उव्विग्गिरीए' का० प्र०.
३५