________________
काव्यानुशासनम् ।
४३
यथा वा — ' मातङ्गगामिन्यः शीलवत्यश्च, गौर्यो विभवरताश्च, श्यामाः पद्मरागिण्यश्च, धवलद्विजशुचिवदना मदिरामोदश्वसनाश्च प्रमदाः ।' अत्र विरोधालंकारो व्यङ्ग्यः ॥
यथा वा
'खं येऽभ्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो ये पुष्णन्ति सरोरुहश्रियमधिक्षिप्ताब्जभासश्च ये । ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरांस्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वः ॥' अत्र व्यतिरेकः ॥ एवमलंकारान्तरेऽप्युदाहार्यम् ॥ गौणशब्दशक्तिव्यङ्गयं वस्तु पदे यथा
‘रविसंक्रान्तसौभाग्यस्तुषाराविलमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥' अत्रोपसंहृतदृष्टिवृत्तिरन्धशब्दो बाधितमुख्यार्थः पदार्थप्रकाशनाशक्तत्वं नष्टदृष्टिगतं निमित्तीकृत्यादर्शे वर्तमानोऽसाधारणविच्छायित्वानुपयोगित्वादिधर्मजातमसंख्यं प्रयोजनं व्यनक्ति ॥
---
वाक्ये यथा
'या निशा सर्वभूतानां तस्यां जागर्ति संयमी । : यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥'
,
मातङ्गो हस्ती चण्डालश्च । गौर्यो गौरादयोऽपि । विभवेरता विगतं भवे रतं यासां ताश्च । पद्मरागा मणिविशेषाः पद्मवच्च रागो विद्यते यासाम् । द्विजा दन्ताः, विप्राश्च ॥ नखैः करजैः, न गगने च । क्षितिभृतो राजानोऽपि उभये रश्मिचरणरूपाः॥ एवमिति । यथा - 'सरसं मउअसहावं विमलगुणाणं मित्तसंगमोल्लसिअम् । कमलं नद्वच्छायं कुणंतदोसायरनमोदे ॥' एतत्केनचिच्चन्द्रमेवोद्दिश्योच्यते । कमलप्रख्यस महापुरुषस्य श्रियं नाशितवन्तं कंचन श्रीजुषं प्रति चाप्रस्तुतप्रशंसा व्यङ्गयेति । निःश्वासान्ध इति । हेमन्तवर्णने पञ्चवट्यां रामस्योक्तिरियम् ॥ या निशेति । सर्वेषां ब्रह्मादिस्थावरान्तानां चतुर्दशानामपि भूतानां या निशाख्या मोहजननी तत्त्वदृष्टिः तस्यां संयमी जागर्ति कथं प्राप्येति । न तु विषयवर्जनमात्रादेव संयमीति
१. अस्य, संस्कृतच्छाया न बुद्धा.