________________
४२
काव्यमाला।
अत्र प्रहरचतुष्टयमप्युपभोगेन नेह निद्रां कर्तुं लभ्यते । सर्वे ह्यत्राविदग्धाः। तदुन्नतपयोधरां मामुपभोक्तुं यदि वससि तदास्स्वेति व्यज्यते। वाच्यबाधेन व्यङ्गयस्य स्थितत्वात् । तयोर्नोपमानोपमेयभाव इति नालंकारो व्यायः॥ यथा च'शनिरशनिश्च तमुच्चैनिहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् ।
यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ॥' अत्र विरुद्धावपि त्वदनुवर्तनार्थमेकं कार्य कुरुतः इति व्यत्ययेन ध्वन्यते । मुख्यशब्दशक्तिव्यङ्गयोऽलंकारः पदे यथा'रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिधः।
झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप भीमः ॥' अत्र भीषणीयस्य भीमसेन उपमानम् । वाक्ये यथा
'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः ।
पयोधरभरस्तस्याः कं न चक्रेऽभिलाषिणम् ॥ अत्र वाक्यस्यासंबद्धार्थत्वं मा प्रसासीदित्यपाकरणिकप्राकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालंकारो व्यङ्गयः॥ यथा वा
'अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा ।
तारकातरला श्यामा सानन्दं न करोति कम् ॥ अत्र शब्दशक्त्या रात्रियोषितोरुपमा व्यङ्गया । यद्यपि समुद्दीपितेति सानन्दमिति चार्थो व्यञ्जकस्तथापि न शब्दशक्तिं विनार्थशक्तिरुन्मीलति इति शब्दशक्तिरेव व्यञ्जिका ॥
त्यर्थः ॥ अशनिवज्रमपि । अनुदारोऽनुगतदारोऽपि ॥ प्रोल्लसन् हारो यस्य, प्रोल्लसन्त्यश्च धारा यस्य । तस्याः कामिन्याः, प्रावृषश्च ॥ अचन्द्रेति । चन्द्रः कर्पूरमपि । समुत्सहर्षा । तारकाभ्यां कनीनिकाभ्यामपि । श्यामा रात्रिः, कान्ता च ॥ .. १. 'अतन्द्रेति' स्यात.