________________
काव्यानुशासनम् । तदेवं संसर्गादिभिर्नियमितायामभिधायां यार्थान्तरप्रतीतिः सा व्यननव्यापारादेव । अमुख्येऽपि शब्दे मुख्यार्थबाधादिनियमिते. प्रयोजनप्रतिपत्तिय॑जनव्यापारादेव । तथा हि तत्र संकेताभावान्नाभिधा नापि गौणी लक्षणा वा मुख्यार्थबाधादिलक्षणाभावात् न हि लक्ष्यं मुख्यम् , नापि तस्य बाधः, न च किंचिन्निमित्तमस्ति, नापि तत्र शब्दः स्खलद्गतिः । न च किंचित्प्रयोजनमस्ति । अथ प्रयोजनेऽपि लक्ष्ये प्रयोजनान्तरमाकाश्यते तर्हि तत्रापि प्रयोजनान्तराकाङ्खायामनवस्था स्यात् । तथा च लाभमिच्छतो मूलक्षतिः । न च प्रयोजनसहितमेव लक्ष्यं लक्षणाया विषय इति वक्तुं शक्यम् । विषयप्रयोजनयोरत्यन्तभेदात् । प्रत्यक्षादेरपि प्रमाणस्य विषयो घटादिः प्रयोजनं त्वर्थाधिगतिः प्राकट्यं संवित्तिर्वा । तदेवं प्रयोजनविशिष्टस्य लक्ष्यस्य गौणीलक्षणयोरविषयत्वात्प्रयोजने व्यञ्जनमेव व्यापारः ॥ तत्र मुख्यशब्दशक्तिव्यङ्गयं वस्तु पदे यथा
'मुक्तिभुक्तिकृदेकान्तसमादेशनतत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः ॥' काचित्संकेतदायिनमेवं मुख्यया वृत्त्या शंसतीति सदागमपदेन प्रकाश्यते । अत्रार्थयो(सदृश्यान्नोपमा ॥ वाक्ये यथा
'पन्थिय न एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे । . उन्नयपओहरं पिखिऊण जइ वससि ता वससु ।' पीति सिद्धं रूपकध्वनिरेवायम् । स च वाक्यपर्यालोचनयावसीयत इति ॥ अर्थाधिगतिरिति । नैयायिकादीनां प्राकट्यं ..भट्टमते, संवित्तिः प्राभाकरे ॥ मुक्तीति । मुक्तिरभेदव्यापारादपि । भुक्तिः कान्तोपभोगोऽपि । एकान्तः संकेतस्थानमपीति । सतः सुन्दरस्यागमनम् , शोभन आगमश्च ॥ उन्नतपयोधरमिति । उन्नतं मेघं प्रेक्ष्ये१. 'पथिक नात्र संस्तरमस्ति मनाक्प्रस्तरस्थले ग्रामे ।
उन्नतपयोधरं प्रेक्ष्य यदि वससि तद्वस ॥' [इति च्छाया।] १. 'मिति' लोचने.