________________
:
३ अध्यायः ]
काव्यानुशासनम् ।
१८१
समासादपि तुल्यमेव । यथा चात्रैव रिपुस्त्रीणामिति रिपुसंवन्धमात्रप्रतीतिः स्त्रीणामिति । 'विनोत्कर्षापकर्षाभ्यां वदन्तेऽर्था न जातुचित् । तदर्थमेव कवयोऽलंकारं 'पर्युपासते ॥ तौ विधेयानुवाद्यत्वविवक्षैकनिबन्धनौ । सा समासेऽस्तमायातीत्य सकृत्प्रतिपादितम् ॥ अत एव हि वैदर्भी रीतिरेकैव शस्यते । यतः समाससंस्पर्शस्तत्र नैवोपपद्यते । संवन्धमात्रमर्थानां समासो यंववोधयेत् ॥' नोत्कर्षापकर्ष वा । यथा - 'ऊर्धा - क्षितापगलितेन्दुसुधालंवत्के जीवत्कपालचयमुक्तमहागृहासम् । संत्रस्तमुग्धगिरिजावलिताङ्गसङ्गहृष्टं वपुर्जयति हारि पिनाकपाणेः ॥' वाक्यात्तूभयमप्यदः । यथा --- 'न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिक् धिक् शक्रजितं प्रवोधितवता किं कुम्भकर्णेन वा स्वर्गग्राम टिकाविलुण्ठनवृथोच्छ्नैः किमेभिर्भुजैः ॥' इति । तथा हि । मम अरय इति बहुवचनेन शत्रु शत्रुमद्भावो ममानुचित इति संवन्धानौचित्यं क्रोधविभावो व्यज्यते । तपो विद्यते यस्येति पौरुषकथाहीनत्वं तद्धितेन मत्वर्थीयेनाभिव्यक्तम् । तत्रापिशब्देन निपातसमुदायेन तापसस्य सतः शत्रुताया अत्यन्तासंभाव्यमानत्वमभिव्यक्तम् । मत्कर्तृका यदि जीवनक्रिया तदा हननक्रिया तावदनुचिता तस्यां च स कर्ता । अपिशब्देन मानुषमात्रकः । अत्रैवेति मदधिष्ठितो देशोऽधिकरणम् । निःशेषेण हन्यमानतया राक्षसवलं च कर्मेति । तदिदमसंभाव्यमुपनतमिति पुरुषकारासंपत्तिर्ध्वन्यते । रावण इति । येन इन्द्रपुरविमर्दनादि किं किं न कृतमिति । धिग्धिगिति निपातेन शक्रजितमित्युपपदसमासेन सह कृता च शक्रं जितवानित्याख्यायिकेयमिति व्यज्यते । स्वर्गेत्यादिसमासस्य स्वपौरुपानुस्मरणं प्रति व्यञ्जकत्वम् । ग्रामटिकेति स्वार्थिकतद्वितप्रयोगेण स्त्रीप्रत्ययसहितेनावहुमानास्पदत्वं व्यज्यते । विलुण्ठनशब्दे विशब्दस्योपसर्गस्य निर्दयावस्कन्दव्यञ्जकत्वं वृथाशब्देन स्वात्मपौरुपनिन्दा व्यज्यते । भुजैरिति बहुवचनेन प्रत्युत भारमात्रमेतदिति व्यज्यते इति । किं तु प्रवृत्तिरेतस्य रसाभिव्यत्तत्यपेक्षया शान्तश्टङ्गारकरुणानन्तरेण प्रशस्यते । 'यतः समासो वृत्तं च वृत्तयः काकवस्तथा । वाचिकाभिनयात्मत्वासाभिव्यक्तिहेतवः । स चान्तावधिः कार्यो नाधिको गद्यताप्तितः । गये हि वृत्तवैकल्यान्यूना तद्यक्तिहेतुता ॥' यथानन्तरोक्ते उदाहरणे - ' तस्याभिन्नः पदार्थानां संवन्धश्चेत्परस्परम्। न विच्छेदोऽन्तरा कार्यो रसभङ्गकरो हि सः ॥ यथा - 'माद्यद्दिग्गजगण्डभित्तिकषणैर्भग्नसवञ्चन्दनः' इति । अत्र हि 'क्षुण्णस्रवच्चन्दनः' इति युक्तः पाठः । विधेयत्वं चैतत्प्राधान्यापलक्षणमव्यभिचारात् । ततश्च प्रधानाविमर्शोऽपि दोषतयावगन्तव्यः । यथा - 'स्नेहं समादिशति कजलमादधाति सर्वान्गुणान्दहति पात्रमधः करोति । योऽयं कुशानुकणसंचयसंभृतात्मा दीपः प्रकाशयति तत्तमसो महत्त्वम् ॥' अत्र हि प्रकाशनक्रियाया एव प्राधान्यविवक्षा नान्यासामिति तासां तत्समशीर्षिकया 'निर्देशो दोष एव । स च तत्र शत्रादिभिरेव वक्तुं न्याय्यो नाख्यातेन । यथा-'विभ्राणः शक्तिमाशु प्रशमितचलवत्तार कौर्जित्यगुर्वी कुर्वाणो लीलयाधः शिखिनमपि लसच्चन्द्र
1
•