________________
१८०
काव्यमाला।
नाव्ययेन सह समासेऽवसादं गमितम्।प्रत्युदाहरणं तु 'मध्ये व्योम-' इत्यादि प्रदर्शितमेव । । अनेनैव न्यायेन कृत्तद्धितवृत्त्योरपि प्रतिषेधोऽवगन्तव्यः । तत्राप्युतक्रमेण प्राधान्येन रसभावविवक्षाविशेषात् । तयोरुदाहरणं यथा-'यः सर्व कषति खलो विभर्ति यः कुक्षिमेव सत्यतिथौ । यस्तु विधुं तुदति सदा शीर्षच्छेदं त्रयोऽपि ते हंसी ॥' इत्यत्र सर्वादीनां कर्षणादिषु कर्मभावेन विशेषणतयोपात्तानामुत्कर्षाभिधायितया प्राधान्येन विवक्षितत्वान तैः सह वृत्तौ न्यग्भावो विहितः । सर्वार्थस्य भुवनाभयदानदीक्षावद्धकक्षाणां वोधिसत्त्वानामपि चरितस्य तदन्तःपातित्वात् । खलाः खलु दम्भादिदोषारोपेण तदपि तेषां कषन्त्येव । कायोपलक्षणस्य कुक्षेः कायस्य सर्वाशुचिनिधानत्वाद्विनश्वरत्वाच्च । विधोश्च सकलजगदानन्दहेतुत्वात्कषणादिष्वकार्यकारितयापराधातिरेकलक्षणमुत्कर्षमादधतां प्राधान्येन विवक्षा शीर्षच्छेदस्य च शरीरेपु निग्रहेषु तदतिरिक्तस्यान्यस्यासंभवात् । यथा च-'रामोऽस्मि सर्व सहे' इति । उचितकारित्वं प्रति किमुच्यते । रामभद्रस्य दशरथप्रसूतिरसाविति च । प्रत्ययोत्पत्तिः पुनर्त्यग्भूतसर्वादिकर्मभावः कषणादिषु कर्नेश एवोन्मन्नतया प्रकाशेत न कौशस्तत्रैव प्रत्ययो. त्पत्तेः । वाक्ये तु यद्यपि शब्दवृत्तेन क्रियायाः प्रधानभावेन प्रतीतिः तथापि तत्रान्या । विवक्षा कृतः साधनानामपि सा प्रतीयत एव । न चैकस्मिन्नेव वाक्ये द्वयोः साध्य. । साधनयोयुगपत्प्रधानभावोऽनुपपन्न इति शक्यं वक्तुम् । शब्दार्थसामर्थ्य विवक्षाकृतानां
त्रयाणामप्येकस्यैव विवक्षाकृतस्य प्राधान्यस्य बलीयस्तया तयोः समशीर्षिकाभावात् । तदिदमत्र तात्पर्यम् । यत्कथंचिदपि प्रधानतया विवक्षितं न तनियमेनेतरेण सह | समासमहतीति । इतरच विशेष्यमन्यद्वास्तु न तत्र नियमः तेन द्वन्द्वपदानां । खरूपाणां च पदानामर्थस्यान्योन्यं विशेषणविशेष्यभावाभावेऽपि यदा प्रत्येक क्रिया
संवन्धोपगमलक्षणं प्राधान्यं विवक्ष्यते तदा तेषामपि समास एकशेषश्च नेष्यत एव । यथा-'किमञ्जनेनायतलोचनाया हारेण किं पीनपयोधरायाः । पर्याप्तमेतननु मण्डनं ते रूपं च कान्तिश्च विदग्धता च ॥' अत्र रूपादीनां प्रत्येकं मण्डनक्रियाभिसंवन्धकृतं प्राधान्यं रत्युद्दीपनपर्यवसायि विवक्षितमिति न तत्तेषां समासेऽवसादितम् । यथा च'यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवन्तशतपत्रनिभं वहन्त्या । दिग्धामृतेन च विषेण च पक्ष्मलाक्ष्या गाद निखात इव मे हृदये कटाक्षः ॥' इति । एकशेषे यथा'प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः । कश्च कश्च स कर्णारिः स च क्रूरो वृकोदरः ॥' इति । प्रत्युदाहरणमेतदेव कृतैकशेपमवगन्तव्यम् ॥ अन पुनरेष प्रधा. नेतरभावो न विवक्षितः खरूपमात्रप्रतिपत्तिफलश्च विशेषणविशेष्यभावस्तत्र समासासमासयोः कामचारः । यथा-'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकानेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥' इत्यत्र भवत इति रिपुस्त्रीणामिति च रिपुस्त्रीणां स्तनयुगस्य च संवन्धित्वेन यद्विशेषणं न ततस्तेषामुत्कर्पयोगः कश्चिद्विवक्षितः । अपि तु तत्संवन्धप्रतीतिमानं तच्च व्रतमिव भवदरिवधूस्तनद्वयमित्यतः