________________
२५४
काव्यमाला।
।
प्रकृताप्रकृतानां धर्मेक्यं दीपकम् । बहुवचनं समस्तव्यस्तपरिग्रहार्थम् । तेन प्रकृताप्रकृतानां प्राकरणिकाप्राकरणिकानामर्थादुपमानोपमेयत्वेन प्रकृतानामप्रकृतानां च केवलानां धर्मः क्रियादिर्यदेक एव प्रयुज्यते तदा दीपवदेकस्थानस्थमनेकदीपनादीपकम् । यथा'चन्दमऊएहिं निसा णलिणी कमलेहिं कुसुमगुच्छेहिं लया ।
हंसेहिं सरयसोहा कबकहा सज्जणेहिं कीरइ गरुई ।' अत्र काव्यकथा प्रकृता शेषाण्यप्रकृतानि । गुरुकीकरणमेका क्रिया । म्वरूपत्वाच्च दृष्टान्तस्य दृष्टान्तेऽप्ययमेव न्यायः । 'उदयति विततोलरश्मिरजी-' इत्यादौ तु अतिशयोक्तिभेदलं वक्ष्यते । 'अत्युच्चपदाध्यासः' इत्यत्र तु सामान्यं दृष्टान्तेन समर्थ्यते । साक्षास्क्रियापि तदर्थान्वयख्यापनं कुर्वतीति न दृष्टान्तात्प्रच्यवत इति ॥ चन्दमऊएहिं इति । चन्द्रमयूखादीनामपि न निशा दिना विना कोऽपि परभागलाभः । सज्जनानामपि काव्यकथां विना कीदृशी साधुजनता । चन्द्रमयूखैश्च निशाया गुरुकीकरणं भाखरवसेव्यतादि यत्क्रियते, कमलैनलिन्याः शोभा परिमललक्ष्म्यादि, कुसुमगुच्छलताया अभिगम्यत्वमनोहरत्वादि, हंसैः शारदशोभायाः श्रुतिसुखकरत्वमनोहरत्वादि, तत्सर्व काव्यकथायाः सजनैरित्येतावानयमों गुरुकी क्रियते इत्येतद्दीपकवलाच्चकास्ति । कथाशब्द इदमाह-आसतां तावत्काव्यस्य केचन सूक्ष्मा विशेषाः, सजनैर्विना काव्यकथा काव्यमित्येष शब्दोऽपि विध्वंसते । तेषु तु सत्सु आस्तां सुभगं काव्यं काव्यशब्दस्य व्यपदेशभागपि शब्दसंदर्भमात्रं तथा तथा तैः क्रियते यथादरणीयतां प्रतिपद्यते ॥ ननु यदि क्रियापदोपनिबन्धो दीपकम् , तर्हि न तदलंकारः । क्रियापदे हि सति वाक्यपरिसमाप्तिः प्रतीयते, न पुनरातिशयः, विना क्रियापदं वाक्यमेव किंचिन्नास्ति यदवोचाम । 'सविशेषणमाख्यातं वाक्यम्' इति आख्यातशब्देन चात्राख्यातान्तं पदमुच्यते, तस्यैव क्रियावाचकत्वात् । तेनात्र कुतः कस्यातिशयः, शास्त्रारम्भवैयर्थ्याच्च । तथा हि-अलंकारशून्यं काव्यं मा भूदिति कवीनामलंकारव्युत्पत्तिः क्रियते । क्रियापदस्य च दीपकत्वे सर्व काव्यं सालंकारमिति नार्थोऽनेन ग्रन्थेन । अलंकारभेदप्रज्ञापनार्थोऽयं ग्रन्थ इति चेत्, तेनैव तावज्ज्ञापितेन कोऽर्थः सर्वथा सालंकारं काव्यं विधेयम् । तत्र यद्यलंकारान्तरं काकतालीयेन १. 'चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छलता।
हंसैः शारदशोभा काव्यकथा सज्जनैः क्रियते गुरुकी ॥ [इति च्छाया।]: