________________
१००
काव्यमाला । वेन रत्यादिगतेनैवातिचर्वणागोचरेणाहृता अनुभावैश्च गम्यमाना भावा भवन्ति । तथा हि । पृथ्वीभागप्रधाने प्राणे संक्रान्तचित्तवृत्तिगणः स्तम्भोविष्टत्वं चेतनत्वम् । जलभागप्रधाने तु बाष्पः । तैजसस्तु प्राणनैकट्यादुभयथा तीव्रातीव्रत्वेन प्राणानुग्रह इति द्विधा खेदो वैवयं च । तद्धेतुत्वात् च तथा व्यवहारः । आकाशानुग्रहे गतचेतनत्वं प्रलयः । वायुखातब्ये तु तस्य मन्दमध्योत्कृष्टावेशात्रेधा रोमाञ्चवेपथुस्वरभेदभावेन स्थितिरिति भरतविदः ॥ बाह्यास्तु स्तम्भादयः शरीरधर्मा अनुभावाः। ते चान्तरालिकान् सात्त्विकान् भावान् गमयन्तः परमार्थतो प्रतिनिर्वेदादिगमका इति स्थितम् ॥ एवं च नव स्थायिनः, त्रयस्त्रिंशव्यभिचारिणः, अष्टौ सात्त्विकाः। इति पञ्चाशद्भावाः ॥ {रयी वेगवत्सागरो गुरुणा सेतुना रुद्धाः सेकप्रारम्भकाः प्रसरा यस्य तादृशोऽपि खल्वित्याश्चर्य न तिष्ठति न निस्तरङ्गीभवति । सागरशब्द उभयलिङ्गः । प्राकृते वा लिङ्गविपर्यासः । तदत्र रतिर्मनोरूपत्वाच्युता बाह्याभौतिकविकारपर्यवसायिनी च न जातेति प्राणभूमावेव विश्रान्ता वर्णिता ॥ रत्यादिगतेनैवेति । ननु विभावान्तरेण, तेषां वा. ह्यविषयविशेषाभिमुख्यनिरपेक्षत्वादित्यर्थः ॥ ग्लान्यालस्यश्रममूर्छादीनां तु यद्यप्यालम्बनविषयशून्यता, तथापि बाह्यहेतुका अतो व्यभिचारिषु गणिताः । अबाह्यहेतुकास्तु स्तम्भादय इति सात्त्विकाः ॥ स्तम्भो विष्टम्भचेतनत्वमिति । मनसा हर्षादिवशेनानिन्द्रियप्रदेशचारिणां विकल्पपर्यन्तागमनरहिताविकल्पकवृत्तिमात्र निष्ठानामिन्द्रियाणामनधिष्ठानादित्यर्थः । यथा-'तेताणयच्छायणिव्वललोअणसिहंपउच्छवाद्यम् । आलिरकपइवाणवणिपयपयइचडुलत्तणं पिवि अलिअम् ॥' एवं बाष्पहेतुत्वाद्वाष्पो यथा'उत्पक्ष्मणोनयनयोरुपरुद्धवाष्पं वृद्धिं कुरु स्थिरतया विहितानुवन्धम् । अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥' तीव्रातीव्रत्वेनेति । तीव्रत्वेन प्राणानुग्रहस्वेदो यथा-'आश्लेषे प्रथम क्रमादथ जिते हृद्येऽधरस्यार्पणे केलिद्यूतविधौ पणं प्रियतमे कान्ता पुनः पृच्छति । सा तूहीसनिरुद्धसंभृतरसोद्भेदस्फुरद्गण्डया तूष्णी शारविशारणाय निहितः स्वेदाम्बुगर्भः करः ॥' अतीव्रत्वेन तु वैवयं यथा'संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिवरा सा । नरेन्द्रमार्गाह इव प्रपेदे विवर्णभावं स स भूमिपालः ॥' प्रलयन्ति प्रकर्षेण प्राणनिलीनेध्विन्द्रियेषु लयः प्रलयः । यथा-'तीव्राभिषङ्गप्रभवेण-' इति ॥ तस्येति । प्राणस्य ॥ मन्देति। प्राणस्य मन्दा.
१. 'स्तम्भो विष्टम्भचेतनत्वम्' इति टीकायाम्. २. 'रतिनिर्वेदा' स्यात. १. 'न तु' स्यात्. २. अस्य संस्कृतं न स्मर्यते.. .