SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः] काव्यानुशासनम् । ____२५१ यथा'जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलयम् । रससंमुही वि सहसा परम्मुही होइ रिउसेणा ॥' अत्र रणस्यान्तःपुरत्वारोपः श्रौतो मण्डलाग्रलताया नायिकात्वं रिपुसेनायाश्च प्रतिनायिकात्वमर्थसामर्थ्यादवसीयते । अनेकविषयं यथा'यस्या वीजमहंकृतिर्गुरुतरो मूलं ममेति ग्रहो नित्यत्वस्मृतिरङ्कुरः सुतसुहृज्जात्यादयः पल्लवाः । स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे त्वच्चरणाहणापरशुना तृष्णालता ल्यताम् ॥' यथा वा__ 'इन्द्रस्त्वं तव वाहू जयलक्ष्मीद्वारतोरणस्तम्भौ । - खड्गः कृतान्तरसना रसना च सरखती राजन् ।' एवं च येऽन्ये रूपकप्रभेदा वर्ण्यन्ते । यथा--- 'ललनाः सरोरुहिण्यः कमलानि मुखानि केसरैर्दशनैः । अधरैर्दलैश्च तासां नवविसनालानि बाहुलताः ॥' इदं सहजावयवं रूपकम् । 'गजो नगः कुथा मेघाः शृङ्खलाः पन्नगा अपि । यन्ता सिंहोऽपि शोभन्ते भ्रमरा हरिणास्तथा ॥' इदमाहार्यावयवं च । 'अलिकुलकुन्तलभाराः सरसिजवदनाश्व चक्रवाककुचाः । राजन्ति हंसवसनाः संप्रति वापीविलासिन्यः ॥' १. 'यस्य रणान्तःपुरे करे कुर्वतो मण्डलाग्रलताम् । रससंमुख्यपि सहसा परामुखी भवति रिपुसेना ॥' [इति च्छाया ।] २. 'जिहा' रुद्रटे. - -
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy