________________
काव्यमाला।
तृतीयोऽध्यायः । 'अदोषौ शब्दार्थों काव्यम्' इत्युक्तम् । तत्र दोषाणां रसापकर्षहेतुत्वं सामान्यलक्षणमुक्तम् । विशेषलक्षणमाहरसादेः स्वशब्दोक्तिः कचित्संचारिवर्ज दोषः।
रसस्थायिव्यभिचारिणां स्वशब्देन वाच्यत्वं दोषः । संचारिणस्तु कचित्स्वशब्दाभिधानेऽपि न दोषः।। तत्र रसस्य स्वशब्देन शृङ्गारादिना वाभिधानं यथा'शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे
बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूर्त्याद्भुतस्तुङ्गया । रौद्रो दक्षविमर्दने च हसकृन्ननः प्रशान्तश्विरादित्थं सर्वरसात्मकः पशुपतिर्भूयात्सतां भूतये ॥' .
वाच्यत्वमिति । वाच्यत्वं हि रसादीनां खशब्दनिवेदितत्वेन वा स्याद्विभावादिप्रतिपादनमुखेन वा । पूर्वस्मिन् पक्षे खशब्दनिवेदितत्वाभावे रसादीनामप्रतीतिप्रसङ्गः। न च सर्वत्रैतेषां खशब्दनिवेद्यत्वं यथा--'यद्विश्रम्य-' इति । अत्रानुभावविभाववोधानन्तरमेव तन्मयीभवनयुक्त्या तद्विभावानुभावोचितचित्तवृत्तिवासनान्तरञ्जितखसं. विदानन्दचर्वणागोचरोऽत्मिाभिलाषचित्तौत्सुक्यनिद्राधृतिग्लान्यालस्यश्रमस्मृतिवितर्कादिशब्दाभावेऽपि स्फुरत्येव ॥ न च केवलशृङ्गारादिशब्दमात्रभाजि विभावादिप्रति|पादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति । यथा-शृङ्गारहास्यकरुणा-' इ. त्यादौ । तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम् । नत्वभिधेयत्वं कथंचिदिति । खशब्दोक्तिदोष इत्यर्थः । द्वितीयश्च पक्षोऽस्माकमप्यभिमत एव । एतेन-'रसवद्दर्शितस्पष्टशृङ्गारादिरसोदयम् । खशब्दस्थायिसंचारिविभावाभिनयास्पदम् ॥' इत्येतद्व्याख्यानावसरे यद्भट्टोद्भटेन 'पञ्चरूपा रसाः' इत्युपक्रम्य
१. 'यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् । दुर्वाकाण्डविडम्बकश्च निविडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥ इति संपूर्णश्लोको भहेन्दुराजस्य ध्वन्यालोचने उदाहृतः. २. 'र्थो रसात्मा' लोचने. ३. अस्य मूलप्रतीकं 'दोष इति ।' इति त्रुटितं भवेत.