________________
काव्यमाला। अभ्यासं व्याचष्टे- . . काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः।
काव्यं कर्तुं जानन्ति विचारयन्ति वा ये ते काव्यविदः कविसहृदयाः। वेत्तेविन्तेश्चावृत्त्या रूपम् । तेषां शिक्षया वक्ष्यमाणलक्षणया काव्य एव पौनःपुन्येन प्रवृत्तिरभ्यासः। अभ्याससंस्कृता हि प्रतिभा काव्यामृतकामधेनुर्भवति । यदाहुः—'अभ्यासो हि कर्मसु कौशलमावहति । नहि सकृन्निपतितमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधतीति शिक्षयेत्युक्तम्' इति ॥ शिक्षा लक्षयति
सतोऽप्यनिबन्धोऽसतोऽपि निवन्धो नियमश्छायाधुपजीवनादयश्च शिक्षाः। · सतोऽपि जातिद्रव्यगुणक्रियादेरनिबन्धनम् , असतोऽपि जात्यादेरेव निबन्धनम्, नियमोऽतिप्रसक्तस्य जात्यादेरेवैकत्रावधारणम्, छायायाः प्रतिबिम्बकल्पतया आलेख्यप्रख्यतया तुल्यदेहितुल्यतया परपुरप्रवेशप्रतिमतया
गुरुः कवेः ॥ इति ॥ छायाया इति । छायाया अर्थादर्थस्य । तदुपजीवनं क्वचित्प्रतिविम्वतुल्यतया । यथा-'ते पाण्डवाः पशुपतेरलिनीलभासः कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः । चन्द्रामृतांशुकणसेकसुखप्ररूढैयैरङ्कुरैरिव विराजति कालकूटः ॥' यथा च-'जयन्ति नीलकण्ठस्य नीलाः कण्ठे महाहयः । गलद्गङ्गाम्बुसंसिक्तकालकूटाङ्कुरा इव ॥ यदाह-'अर्थः स एव सर्वो वाक्यान्तरविरचनापरं यत्र । तदपरमार्थविभेदं काव्यं प्रतिबिम्बकल्पं स्यात् ॥' क्वचिदालेख्यप्रख्यतया । तत्रैवार्थे यथा'जयन्ति धवलव्याला: शंभोजुटावलम्बिनः । गलद्गङ्गाम्बुसंसिक्तचन्द्रकन्दाङ्कुरा इच ॥ यदाह-'कियतापि वस्तुसंस्कारकर्मणा वस्तु भिनवद्भाति । तत्कथितमर्थचतुरैरालेख्यप्रख्यमिति काव्यम् ॥' क्वचित्तुल्यदेहितुल्यतया । यथा-'अवीनादौ कृत्वा भवति तुरगो यावदवधिः पशुधन्यस्तावत्प्रतिवसति यो जीवति सुखम् । अमीषां निर्माणं किमपि तदभूद्वद्धकरिणां वनं वा क्षोणीभृद्भवनमथ वा येन शरणम् ॥' अत्रार्थे-'प्रतिगृहमुपलायामेक एव प्रकारो मुहुरुपकरणत्वादर्थिताः पूजिताश्च । स्फुरति ह नु मणीनां किं तु तद्धाम येन क्षितिपतिभवने वा स्वाकरे वा निवासः ॥ यदाह-'विषयस्य यत्र भेदेऽप्यभेदबुद्धिनितान्तसादृश्यात् । तत्तुल्य देहितुल्यं काव्यं वध्नन्ति सुधियोऽपि ॥' क्वचित्परपुरप्रवेशप्रतिमतया । यथा-'यस्यारातिनितम्बिनीभिरभितो वीक्ष्याम्वरं
१. 'कल्पतया' इति मूलपुस्तके उपलभ्यते.