________________
३ अध्यायः ]
काव्यानुशासनम् ।
१२.१
धेयमप्यगृह्णतो विजयवर्मवृत्तान्ताकर्णने । यथा वा वीरचरिते द्वितीयेऽङ्के । राघवभार्गवयोर्द्वाराधिरूढवीररसे 'कङ्कणमोचनाय गच्छामि -' इति राघवस्योक्तौ ।
अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनं यथा - हयग्रीववधे हयग्रीवस्य । यथा वा विप्रलम्भशृङ्गारे नायकस्य कस्यचिद्वर्णयितुमनुकान्ते कवेर्यमका - द्यलंकारनिबन्धरसिकतया महाप्रबन्धेन समुद्रादेः । तथा हि हरिविजये ईर्ष्या कुपितसत्यभामानुनयनप्रवृत्तस्य हरेः पारिजातहरणव्यापारेणोपक्रान्तविप्रलम्भस्य वर्णनप्रस्तावे गलितकनिबन्धनरसिकतया कविना समुद्रवर्णनमन्तरा गड्डस्थानीयं विस्तृतम् । तथा कादम्बर्याम् 'रूपविलास -' इत्यादिना महाविप्रलम्भवीजेऽप्युपक्षिप्ते तदनुपयोगिनीष्वटवीशवरेशाश्रममुनिनगरीनृपादिवर्णनास्वतिप्रसङ्गाभिनिवेशः । तथा हर्षचरिते 'जयति ज्वलद् - ' इत्यादिना हर्षोत्कर्षवद्विजयवीजे वाणान्वयवर्णनम्, तत्रापि चानन्वितप्राय एव सारस्वतोत्पत्तिपर्यन्तो महान्ग्रन्थसंदर्भः । शिशुपालवधादौ चादितः प्रकृतप्रतिबन्धिविजयवी जोपक्षेपावगाढव्याप्तिमद्वीररसानुबन्धेऽपि तदसङ्गतशृङ्गाराङ्गभूततत्तदृतूपवनविहारपुष्पावचायमज्जनादिवर्णनाखत्यासक्तिः। तदित्थम् । अप्रस्तुतवस्तुविस्तृतिः प्रस्तुतरसप्रतीतिव्यवधानकारिण्यपि महाकविलक्ष्येषु भूयसा दृश्यते इति तत्त्वं त एव विदन्ति ।
अङ्गिनः प्रधानस्याननुसंधानं यथा – रत्नावत्यां चतुर्थेऽङ्के बाभ्रव्यागमनेन सागरिकाया विस्मृतिः । अनुसंधिहिं सर्वस्वं सहृदयतायाः । यथा तापसवत्सराजे षट्स्वप्यकेषु वासवदत्ताविषयः प्रेमसंबन्धः कथावशादाशङ्कयमानविच्छेदोऽप्यनुसंहितः ।
यस्येव । तथा च तस्यां दशायां महाकवीनामेको द्वित्रा वा श्लोका निर्यान्ति । अत एव तापसवत्सराजे धाराप्राप्तकरुणरसः सर्वाल्पो द्वितीयोऽङ्कः कविना निवद्धः । पटूस्वविति । तथा हि प्रथमे तावद -'तद्वन्दुविलोकनेन दिवसो नीतः प्रदोषं
१. 'र्धाराधिरू' काव्यप्रका० २. 'गमने सा' का० प्र०. ३. 'प्रेमवन्धः' ध्वन्यालोकलोचने.
;
.
१६