________________
काव्यमाला।
विभक्तवाच्यवाचकायोगादनुक्तयोरपि शब्दार्थयोः प्रतिपत्तिः प्रसादः इति भरतः। पदपूर्विका तदर्थावगतिरिति शब्दार्थयोर्ग्रहणम् । यथा-'यस्याहुरतिगम्भीरजलदप्रतिमं गलम् । स वः करोतु निःसङ्गमुदयं प्रतिमङ्गलम् ॥' सेयं विशेषणाधारा विशेष्याणामुक्तिरिति वामनीयाः । तस्मात् 'शैथिल्यं प्रसादः'। ओजोविपर्ययात्मा कथं गुण इति । गाढत्वसंप्लतं शैथिल्यमेव गुण इति चेत् । परस्परविरोधित्वाद्गाढत्वशैथिल्ययोः कथमेकत्र संनिवेशः संभवतीति । अनुभवादेव विरोधप्रतिषेध इति चेत् । यदाह-करुणप्रेक्षणीयेषु संप्लवः सुखदुःखयोः । यथानुभवतः सिद्धस्तथैवौजःप्रसादयोः ॥' सेयं दृष्टान्तस्यैव तावदसिद्धिः। दृष्टान्तविघातश्च दार्टान्तिकमपि प्रतिहन्ति । तथा हि-सामाजिकजनो नाट्यकर्मणि करुणरसवासितचेताः प्रथमं दुःखातिमात्रप्रयोगवैशारद्येन च पश्चात्सुख्यति । ओजःप्रसादयोः पुनर्युगपंदेवानुभवप्रतिज्ञा । यदि च तत्त्वं विवेच्यते तदा सर्वेषामपि रसानां प्रतीतिश्चमत्कारसारत्वात्सुखरूपैवेति दृष्टान्त एव न संगच्छते । तस्माद्विकाशहेतुः सर्वत्र प्रसाद इति । अर्थगुणस्तु 'वैमल्यं प्रसादः इति । प्रयोजकपदपरिग्रहो हि वैमल्यम् । तच्चाधिकपदत्वदोषनिराकरणात्वीकृतमेव ।। 'स्वभावस्पष्टं विचारगहनं वचः श्लिष्टम्' इति भरतः । 'क्षणं स्थिताः पक्षमसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभि प्रथमोदबिन्दवः ॥' सेयमभिधानाभिधेयव्यवहारे वैदग्धी, न पुनः संदर्भधर्मः। रचनारूपता हि गुणस्य स्वरूपमिति वामनीयाः । तस्मात् 'ममृणत्वं श्लेषः । तदाह-यस्मिन् सति बहून्यपि पदानि एकपदवद्भासन्ते स श्लेषः ॥ यथा—'अस्त्युत्तरस्यां दिशि देवतात्मा' इति । मसृणमदन्तरायां(?) हि रीतिवैशसोपनिपातः।तं चान्यतररसनिर्वाह निषेवन्ते । तस्मात् 'अशिथिलं श्लिष्टम्' इति दण्डी ॥ यथा-'प्रेक्षामृदङ्गनिनदानुपकर्ण्य तूर्णमम्भोदनादरभसान वृते मयूरैः । यन्मन्दिरे सरलकण्ठमकण्ठकूजमुन्मण्डलीकृतशिखण्डमकाण्ड एव ॥' सोऽयमोजः प्रकार एव । अदृष्टगौडसंदर्भस्य वा दर्शनमित्युपेक्षणीयम् । गौडा हि शिथिलमाद्रियन्ते । यथा-'लीलाविलासललनाललितालकलासकाः । विलुप्तमालतीमाला जलकालानिला ववुः ॥' इति । अर्थगुणस्तु 'घटना श्लेषः' । क्रमकौटिल्यानुल्वणत्वोपपत्तियोगो हि घटना। यथा---'दृष्ट्वैकासन-' इति । संविधानकभवं
१. भरते तु 'अथानुक्तो बुधैर्यत्र शब्दादर्थः प्रतीयते । सुखशब्दार्थसंयोगात्प्र. सादः परिकीर्त्यते ॥' इति. २. अन 'चेत्' इति भवेत्. ३. अत्र 'चेत्' इति न भवेत्. ४. अत्र 'चेत्' इति भवेत्. ५. अन 'चेत्' इति न स्यात्. ६. 'दुख्यति, पात्रप्रयो' इति स्यात्. ७. वामनसूत्रं तु 'अर्थवैमल्यं' इत्युपलभ्यते. ८. 'मात्रपरि' इति वामनसूत्रवृत्तौ. ९. भरते तु 'विचारगहनं यत्स्यात्स्फुटं चैव स्वभावतः । स्वतः सुप्रतिबद्धं च लिष्टं तत्परिकीर्तितम् ॥' इति. १०. 'स्थिताः क्षणं' इति कुमारसंभवे. ११. 'यन्नैकपदवद्भावः पदानां भूयसामपि । अनालक्षितसंधीनां स श्लेषः परमो गुणः ॥' इति वामनसूत्रवृत्तौ. १२. काव्यादर्शे तु 'श्लिष्टमस्पृष्टशैथिल्यमल्पप्राणाक्षरोत्तरम्' इति.