________________
४ अध्यायः काव्यानुशासनम् ।
१९५ हीनस्य वा वस्तुनः शब्दार्थसंपदा यदुदात्तत्वं निषिश्चन्ति कवयस्तदोजः' इति भरतः ।। यथा-'गोमायवः शकुनयोऽत्र शुनां गणोऽत्र लुम्पन्ति कीटकृमयः परितस्तथैते । त्वं संपदं सकलसत्त्वकृतोपकारं(?) नादृष्टवान्यदपि(?) तच्छव वचितोऽसि ॥' अनवगतस्याहीनस्य वा वस्तुनः शब्दार्थयोरर्थसंपदा यदनुदात्तत्वं निषिञ्चन्ति कवयस्तर्हि तदनोजः स्यादिति मङ्गलः । यथा-'ये संतोषसुखप्रबद्ध मनसस्तेषां न भिन्ना मुदो येऽप्येते धनलोभसं. कुलधियस्तेषां तु दूरे नृणाम् । धिक्तं कस्य कृते कृतः स विधिना तादृक्पदं संपदा खात्मन्येव समाप्तहेममहिमा मेरुन मे रोचते॥' कवीनामभिधेयं प्रति त्रयः पन्थानः। एते न्यूनमुत्कर्षन्ति, अधिकमपकर्षन्ति, यथार्थ वस्तु स्थापयन्ति, तत्कथमिवायं गुण इति दण्डी । तस्मात्समासभूयस्त्वमोजः । तच्च गद्यविभूषणं प्रायेण, वृत्तवर्मन्यपि गौडास्तदाद्रियन्ते । प्रथममाख्यायिका दिपलभ्यते । द्वितीयं यथा-'दूरोद्दण्डतडित्करालतरलज्योतिश्छटाडम्बरस्फारस्फूर्जितदुर्जयास्त्रसचिवज्याघोषघूत्कारिणाम् । यस्यैकस्य शतानि पञ्च धनुपां दैत्याहवेषु व्यधुर्लोलीभावगभीरघोरमखिलब्रह्माण्डकोलाहलम् ॥ रीतित्रयेऽप्योजसः साधारणत्वाद्गौडीयानिर्देशो न युक्तिमानिति वामनो मङ्गलश्च । तस्माद्गाढत्वमोजः । यथा-'भस्मवर्म फणिनः पतिर्गवामस्थिपतिरिति ते परिग्रहः । ईश इत्ययमनन्यचुम्वितश्चन्द्रचूड तदपि त्वयि ध्वनिः ॥' एवं रीत्यन्तरेऽपि ॥ ओजसि हेत्वन्तरमवमृश्यतां, न पुनर्गाढत्वम् । तद्धि शुद्धमोजसः प्रत्युत हानिहेतुः । यथा-'वजेणान्तर्नु वजिन् जहि वहुविशतं(?) वासुके शेपघोणां दन्तैर्दिग्दन्तिनोऽक्ष्णो विघटयत पुटानङ्गुलीहि त्रिशूलैः । दध्वन्यध्वं श्रवःस्थाः प्रलयजलमुचः कूर्म आकम्पयोर्वी मैनाक क्षुध्वि(?) वक्षस्तुटमटतु रणे कुम्भकर्णोऽस्तनिद्रः ।।' तस्मान गाढत्वमोजः । अर्थगुणस्तु 'अर्थस्य प्रौढिरोजः' इति वामनः । तत्र-पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा । प्रौढिक्ससमासौ च साभिप्रायत्वमस्य च ॥' इति या प्रौढिरोजस्तद्वैचित्र्यमानम् । साभिप्रायत्वरूपं चौजोऽपुष्टार्थत्वदोषमात्रं न गुणः । किं च । भोः स. हृदया अर्थो जडस्तस्याभिप्राय इति केषां भाषा । वक्तृश्रोत्रोः स इति चेत्तद्गतोऽर्थस्य गुण इति कथम् । अथ वस्त्वन्तराक्षेपकत्वमेव तस्य गुण इत्युच्यते । तद्वस्त्वन्तरमाक्षेप्यं वक्रभिप्रायरूपमेवमाक्षेपकत्वमपि कविव्यापारवलादेव तथा विनिवेशनाप्रकारयोगे तथाभावात् अत एव प्रौढिर्वस्तुतो वक्तृगतैव, सा त्वर्थे काममुपचर्यतामित्यलं बहुना ॥
१. भरते तु 'समासवद्भिर्विविधैर्विचित्रैश्च पदैर्युतम् । सा(?)तु स्वरैरुदारैश्च तदोजः परिकीर्त्यते ॥' इत्युपलभ्यते. २. 'नो' इति भवेत्. ३. 'गीत' इति भवेत्. ४. तथा च काव्यादर्शे-'ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम् । पद्येऽप्यदाक्षिणात्यानामिदमेकं परायणम् ॥ तद्गुरूणां लघूनां च बाहुल्याल्पत्व मिश्रणैः । उच्चावचः प्रकार तदृश्यमाख्यायिकादियु ॥' इति. ५. तथा च वामनसूत्रम्-'गाढवन्धनत्वमोजः' इति. ६. वामनेन तु 'न शुद्धः' इति सूत्रेण शुद्धस्य प्रसादस्य दोषत्वमङ्गीकृतम्. ७. 'दोषनिराकरणमात्रम्' इति भवेत.