________________
१९४
काव्यमाला। ध्यसे इति विधौ वाच्ये परिबोधित इत्युक्तमिति परिवृत्तविधित्वमपि । अत्र चान्वर्थवलादेवाधिगतेः पदादिदोषाणां विशेषलक्षणं न प्रणीतम् ॥
अथापवादानाहनानुकरणे।
दोषा इत्यनुवर्तते । अनुकरणविषये निरर्थकादयः शब्दार्थदोषा न भवन्ति । उदाहरणं प्रागेव प्रदर्शितम् ॥ वक्रायोचिये च।
वक्तप्रतिपाद्यव्यङ्गचवाच्यप्रकरणादीनां महिम्ना न दोषो न गुणः । तथोदाहृतम् ॥
कचिद्गुणः। वाद्यौचित्ये क्वचिद्गुण एव । तथैवोदाहृतम् ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशा
सनवृत्तौ दोषविवेचनो नाम तृतीयोऽध्यायः ।
चतुर्थोऽध्यायः । सगुणौ शब्दार्थों काव्यमित्युक्तम् । गुणानां च रसोत्कर्षहेतुत्वं सामान्यलक्षणं प्रतिपादितम् । इदानीं तद्भेदानाहमाधुर्योजाप्रसादास्त्रयो गुणाः।
त्रयो न तु पञ्च दश वा, लक्षणस्य व्यभिचारादुच्यमानगुणेष्वेवान्तर्भावात्, दोषपरिहारेण स्वीकृतत्वाच्च । गुणा इति रसस्य गुणाः शब्दार्थयोस्तु भक्त्या इत्युक्तमेव ।
न तु दश पञ्च वेति । अयं भावः-माधुयोजःप्रसादा एव गुणाः, ते च मुख्यवृत्त्या रसस्यैवेति प्राक् सामान्यलक्षणे निर्णीतम् । ततश्चैते शब्दार्थाश्रयखेनान्ये च गुणा यत्कैश्चन प्रतिपाद्यन्ते तन युक्त मिति । तथा हि-'ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो वन्धगुणा दश' इति केचित् । तत्र 'अवगीतस्य
१. टीकायां तु 'दश पञ्च वा' इत्युपलभ्यते, व्याख्यायते च तेनैव क्रमेण. तस्मात् 'पञ्च दश' इति पाठो लेखकप्रमादजो भवेत्.
१. मूले तु 'पञ्च दश वा' इत्युपलभ्यते.
।