________________
४ अध्यायः ]
काव्यानुशासनम् |
१९७
वैचित्र्यमात्रमिदं न गुणः ॥ 'परस्परविभूषणो गुणालंकारग्रामः समम्' इति भरतः । यथा - 'स्मरनवनदी -' इति । भिन्नाधिकरणा हि गुणालंकारास्तत्कथमन्योन्यं भूषयेयुरिति दण्डी । पयमकचित्राणि हि प्रायेण गुणान्विगृह्य वर्तन्ते । अनुप्रासोऽपि प्रचुरं प्रयुक्तस्तद्वदेव । तस्माद्बन्धेष्वविषमं समम् । ते च प्रौढो मृदुर्मध्यश्चेति त्रयः । प्रौढमृदुमध्यवर्णविन्यासयोनित्वात् । प्रौढो यथा - 'आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात । त्रुय्यतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः ॥ मृदुयथा - 'ललितमङ्गमपाङ्ग विलोकितं स्मितसुधालवपल्लवितोऽधरः । इति मनो जयतः प्रमदाजनं मनसिजस्य जयन्ति शिलीमुखाः ॥' मध्यो यथा - 'ईदृशस्य भवतः कथमेतलाघवं मुहुरतीव रतेषु । क्षिप्तमायतमदर्शयदुर्व्या काचिदाम जघनस्य महत्त्वम् ॥' तदिदं वृत्तिभ्यो न पृथग्भवतीति वामनीयाः । तस्माद्येन रीतिविशेपेणोपक्रम स्तस्यापरित्याग आ समाप्तेरिति समताया रूपम् । तन्मुक्त के प्रबन्धे च । वैदर्भमार्गनिर्वाहो यथा— 'किं व्यापारै:-' इति । गौडमार्गनिर्वाहो यथा - 'क्षुद्रः कोऽयं तपखी क्षव (?)वदनवनच्छेदनिष्ठयूतमजव्याजाज्यस्फारधाराहु तिहुतहुतभुक्पच्यमानैः कपालैः । जातास्थिस्फोटभीतिप्रविघटितवलङ्कामपार्श्वप्रवेशकाम्यत्सव्येतरार्धाकुलितहरठा कृष्टखगोदशास्यः ॥' पञ्चालमार्गनिर्वाहो यथा - ' ते काकुत्स्थपृपत्कजर्जरजरत्तालद्रुमस्थाणवस्ते विच्छिन्नमहेन्द्रकन्दरकणत्कर्णेषु टङ्काङ्किताः । ते लीलाशबरेन्दुशेखरशरव्याक्षेपवीथीभुवो दुर्गाहा अपि गाहिताः शशिरुचा कीर्त्य वनान्तास्तव ॥ एवं प्रवन्धेऽपि ॥ प्रयोगमार्गे प्रतिवसन्तः प्रमाणम् । ते च न सर्वत्र समतां वैचित्र्याय संगिरन्ते । तथा हि-'अज्ञानाद्यदि वाधिपत्यरभसाद स्मत्परोक्षे हृता सीतेयं प्रतिमुच्यतामिति वचो गत्वा दशास्यं वद | नो चेल्लक्ष्मणमुक्त मार्गणगणाच्छादोच्छ लच्छोणितच्छत्रच्छन्न दिगन्त मन्तकपुरं पुत्रैर्धृतो यास्यति ॥ ' इत्यादौ मसृणमार्ग त्यागो गुणः । तस्मात्समता वक्तव्या । अर्थगुणस्तु ‘अवैषम्यं श्लथता’। प्रक्रमाभेदो ह्यवैपम्यम् । यथा – 'च्युतसुमनसः कुन्दाः पुष्पेष्वलसा द्रुमा मनसि च गिरं ग्रन्थन्ति मे किरन्ति न कोकिलाः ।' प्रक्रमभेदो यथा'च्युतसुमनसः कुन्दाः पुष्पेष्वलसा द्रुमा मलयमरुतः सर्पन्तिं मे वियोगधृतिच्छिदः ।' इति । मधुग्रीष्म प्रतिपादनपरेऽत्र द्वितीयपादे प्रक्रमभेद: । मलयमरुतामसाधारणत्वात् । ततश्वापदोषत्वमेतन्न गुण इति ॥ अर्थस्य गुणान्तरसमाधानात्समाधिरिति भरतः । यथा - ' परिणतशरकाण्डच्छायमच्छाच्छया यत्किसलयितमिवासीच्चारुलावण्यलक्ष्म्या । तदनुदिवसमस्यास्तोयविच्छेद सीदन्नवकुवलयदामश्यामलं जातमङ्कम् ॥' सो
-
१. 'समं वन्धेष्वविषमं ते मृदुस्फुटमध्यमाः । बन्धा मृदुस्फुटोन्मिश्रवर्ण विन्यासयोनयः ॥ इति काव्यादर्शवचनात् २. ' च सन्तः ' स्यात्. ३. 'समता' वामनसूत्रे. ४. 'पुष्पोद्गमे' वामनालंकारसूत्रवृत्त्युपलब्धः साधीयान्. ५. 'वनन्तीमे' वामनसूत्रवृत्ती. ६. 'पुष्पोद्गमे' स्यात्. ७. 'ती' स्यात्. ८. 'वियुक्त' सूत्रवृत्तौ वामनः. ९. 'ऋतुसंधि' सूत्रवृत्तिः.