________________
१९८
काव्यमाला । ऽयमतिशयोक्तिविशेष इति वामनीयाः । तस्मात् 'आरोहावरोहक्रमः समाधिः।' तत्रारोहपूर्वोऽवरोहो यथा-शृङ्गोत्खातभुवः कृतान्तमहिषादत्रस्त उच्चैःश्रवाः श्रुत्वैरावणकण्ठगर्जितमयं क्रुद्धोऽम्बिकाकेसरी । संगीतागतकम्बलाश्वतरयोः प्रेक्षागृहद्वारि च प्रेक्ष्य स्कन्दशिखण्डिनं चकितयोः कस्मान्मुखं म्लायति ॥' अवरोहपूर्व आरोहो यथा'यद्वाभिर्जगाहे गुरुसकलकुलास्फालनत्रासहासव्यस्तोरुस्तम्भिकाभिर्दिशि दिशि सरितां दिग्जयप्रक्रमेषु । अम्भोगम्भीर...."कुहरकवलनोन्मुक्तिपर्यायलोलत्कल्लोलाबद्धमुग्धध्वनिचकितकणत्कुङ्कुमं कामिनीभिः ॥' तदिदं गुरुलघुसंचययोरन्योन्यान्तरणमिति दण्डी। तस्मादन्यधर्मस्यान्यत्र समाधानात्समाधिः । यथा-'प्रतीच्छत्याशोकी किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरहिताडीपरणतिम् । परिम्लानप्रायामनुवदति दृष्टिः कमलिनी मितीयं माधुर्य स्पृशति च तनुत्वं च भजते ॥' सेयमुपचरिता वृत्तिरिति चेद्गुणः, योगवृत्त्या किमपराद्ध मिति ॥ अर्थगुणस्तु अर्थदृष्टिः समाधिः । यथा'अग्रादपि मध्यादपि मूलादपि सर्वतोऽथ शोकस्य । पिशुनस्थमिव रहस्यं यतस्ततो निर्गतं कुसुमम् ॥' अर्थस्य योनेरन्यच्छायायोने; यदि न भवति दर्शनं तत्कथं काव्यं स्यात् । ततश्च सकलसत्कविदृष्टः काव्यार्थः समाधिः स्यादिति नार्थगुणः समाधिः ॥ बहुशो यच्छ्रुतमभिहितं वाक्यमनुद्वेजकं मनसः तन्मधुरमिति भरतः । दयितजनरूक्षाक्षराक्षेपव बनेऽपि तत्समानमिति वामनीयाः । तस्मात् 'पृथक्पदवं माधुयम्' । तदिदमनुभवविरुद्ध मिति दण्डी । समासेऽपि माधुर्यस्य दर्शनात् । यथा-'अनवरतन- . यनजललवानिपतनपरिमुषितपत्रलेखान्तम् । करतलनिषण्णमबले वदनमिदं किं न तापयति ।।' इति । तस्माद्रसवन्मधुरम् । रसस्तु द्विधा-...............: । व्यङ्गयस्तु विषयत्वेन । तयोः श्रुतिवर्णानुप्रासाभ्यां वापसः । अनुप्रासो ह्यलंकारः । कथं तस्य गुणत्वम् । अग्राम्याभिधेयता तु वस्तुरसः । असभ्यार्थ निबन्धनं हि ग्राभ्यता । यथा-'ब्रह्मचर्योपतप्तोऽहं त्वं च क्षीणा बुभुक्षया । भद्रे भजख मां तूर्णं तव दास्याम्यहं पणम् ॥' सोवेदोमाभावो न गुणः । एतेनोक्तिवैचित्र्यरूपं माधुर्य वामनोक्तोऽप्यर्थगुणो निरस्त एव । तस्मादाह्लादकत्वं माधुर्यमिति ॥ सुखशब्दार्थ सकुमारमिति भरतः । यथा---'अङ्गानि चन्दनरजःपरिधूसराणि ताम्बूलरागसुभगोऽधरपल्लवश्च । अच्छाञ्जने च नयने वसनं तनीयः कान्तासुभूषणमिदं विभवावशेषः ॥' 'सुखशब्दमेव' इति वामनः । यथा-'हरेः कुमारोऽपि कुमारविक्रमः
१. 'ति तालीपरि-' स्यात्. २. 'तोऽप्यशो' स्यात्. ३. 'अर्थस्यायोने' स्यात्. ४. 'बहुशो यच्छ्रुतं काव्यमुक्तं वापि पुनः पुनः । नोवैजयति तस्माद्धि तन्माधुर्यमुदाहतम् ॥' इति भरतोत्त्यनुसारेण 'वा काव्य' स्यात्. ५. 'सा वै दोषाभावः' इति स्यात्, ६. 'सुखप्रयोज्यैश्छन्दोभिर्युक्तं प्रश्लिष्टसंधिभिः । सुकुमारार्थसंयुक्तं सुकुमारं तदुच्यते ॥' इति भरतपाठः. ७. 'अजरठलं सौकुमार्यम्' इत्येवं वामनसूत्रेषूपलभ्यते, तत्र जरठत्वं परुषत्वं श्रुतिकटुत्वमिति यावत्.