________________
४ अध्यायः काव्यानुशासनम् ।
१९९ सुरद्विपास्फालनकर्कशाङ्गुलौ । भुजे शचीपन्नलताक्रियोचिते खनामचिहं निचखान सायकम् ॥' सोऽयं श्रुतिकटुत्वदोषाभावो न गुणः । माधुर्यप्रकार एवाऽयम् । अर्थगुणस्तु 'अपारुष्यम् सौकुमार्यम्' । यथा-'स किलेन्द्रप्रयुक्तेन सौरिणा भूमिनन्दनः । चक्रघातोपदिग्धाध्वा नीतात्यन्तप्रवासताम् ॥' सोऽयममङ्गलरूपाश्लीलत्वदोषाभावो न गुणः ॥ यदि वा उक्तिविशेषः पर्यायोक्तालंकारविषय एवासौ ॥ बहुभिः सूक्ष्मैश्च विशेषैः समेतमुदारमिति भरतः । यथा-'ये पूर्व यवसूचिसूत्रसुहृदो ये केतकाग्रच्छदच्छाया धाम(?)पुनर्पणाललतिकालावण्यभाजोऽत्र ये। ये धाराम्बुविडम्विनः क्षणमथो ये तारहारश्रियस्तेऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः ॥' उल्लेखवानयमर्थः कथं गुण इति वामनीयाः । तस्माद् 'विकटत्वमुदारता' । यस्मिन् सति नृत्यन्तीव पदानीति वर्णना भवति । यथा-'अत्रान्तरे रणितहारलतानितम्बसंवाहनस्खलितवेगतरङ्गिताङ्गी। देवी व्यपास्य शयनं धृतमानतन्तुरन्तःपुरं गतवती सह सौविदल्लैः ॥' सोऽयमीषदममृणोऽनुप्रासभावो न गुणः । ओजःप्रकार एव वायम् । अर्थगुणस्तु-'अग्राम्यत्वमुदारता' । यथा-'त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमान्तं परमिह युवामेव भजथ । अयि द्वन्द्वं दिष्टया तदिह सुभगे संवदति वामतः शेषं चेत्स्याज्जितमथ तदानीं गुणितया ॥' सोऽयं दोषाभावो न गुणः॥ यस्मिन्न तथास्थितोऽपि तथास्थित एवार्थः प्रतिभाति सोऽर्थव्यक्तिर्गुण इति भैरतः । यथा--'च्युतामिन्दोलॆखां रतिकलहभनं च वलयं द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया । अवोचवं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशन किरणापूरिततनुः ॥' सोऽयं प्रसादादभिन्न इति वामनीयाः । तस्माद्यत्र पुरस्तादिव वस्तुनोऽवगतिः पश्चादिव वाचां सार्थव्यक्तिः । यथा-'महेश्वरे वा जगतां महेश्वरे जनार्दने वा जगदन्तरात्मनि । न वस्तुभेदप्रतिपत्तिरस्ति मे तथापि भक्तिस्तरुणेन्दुशेखरे ॥' सोऽयमुक्त्यन्तराभिहितः प्रसाद एवेति दण्डी। तस्मादनेयार्थत्वमर्थस्यार्थव्यक्तिः । तत्र चास्तोकमुदाहरणम् । दोषाभावोऽयं कथमिव गुणः । तथा चेद्वहुत्वादोषाणां शतं गुणाः स्युः । अर्थगुणस्तु 'वस्तुनः स्फुटत्वमर्थव्यक्तिः । यथा-'पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिरङ्कितमलतकलो हिनीभिः । गोरोचनाहरितवभ्रवहिःपलाशमामोदते कुमुदमम्भसि पल्वलस्य ॥' कविवचनवैशारद्यतो वस्तुनः स्फुटत्वमनिसर्गतः । तदुकम्-'निवेशयति हृद्यर्थान्न तथापि तथेति वा । महाकवीनां विकटा वाणी विजयतामसौ ॥' अपि च । जाति मायमलंकार इति ॥ श्रोत्रमनः प्रह्लादजननं कान्तं
१. 'नीतो' स्यात्. २. 'वासिताम्' स्यात्. ३. "दिव्यभावपरीतं यच्छृङ्गाराद्भुतयोजितम् । अनेकभावसंयुक्तमुदारं तत्प्रकीर्तितम् ॥' इत्येवं भरते पाठः. ४. 'नाम' स्यात्. ५. 'तदिति' वामनसूत्रवृत्तौ. ६. 'सुप्रसिद्धा धातुना(?)तु लोककर्मव्यवस्थिता । या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रकीर्त्यते ॥' इत्येवं समुपलभ्यते. ७. 'वस्तुखभावस्फुटख' वामनसूने.