________________
६ अध्यायः] काव्यानुशासनम् ।
२८५ जातं दैवादुचितमनयोः संगतं यत्र तस्मि
___ शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥ यथा वा'चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं
जातो दैवादुचितरचनासंविधाता विधाता । यन्निम्बानां परिणतफलस्फातिरास्वादनीया
यच्चैतस्याः कवलनकलाकोविदः काकलोकः ॥' हेतौ कायें चैकत्र हेतुकार्यान्तरोक्तियुगपद्गुणक्रियाश्च समुच्चयः। कस्यचित्कार्यस्य एकस्मिन्हेतौ साधके सति हेत्वन्तराभिधानम्, कार्य चैकस्मिन्प्रस्तुते कुतश्चिन्निमित्तात्कार्यान्तराभिधानं च समुच्चयः । युगपद्गुणौ च क्रिये च गुणक्रिये च समुच्चयः । वहुवचनं व्याप्त्यर्थम् । हेतौ हेत्वन्तरं यथा'दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं
गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुंलं निर्मलम् ।
भावः ॥ समुच्चय इति । अतुल्यकक्ष्यतामनपेक्ष्यैव समुच्चयनं समुच्चय इति सामान्येन व्युत्पत्तिः करणीया । एवं हि 'समाधिः सुकरं कार्य कारणान्तरयोगतः' इत्येवं लक्षणलक्षितः समाधिरपि समुच्चय एवान्तर्भवति । अन्यथा 'मानमस्या निराकतुम्' इत्युदाहरिष्यमाणे तुल्यकक्ष्यत्वाभावान समुच्चयः स्यादिति । एष एव च समुच्चयः सद्योगे असद्योगे सदसद्योगे च पर्यवस्यतीति न पृथग्लक्ष्यते। तथा हि-'कुलममलिनं भद्रा मूर्तिमतिः श्रुतशालिनी भुजवलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्रजति सुतरां दपै राजंस्त एव तवाङ्गुशाः ॥' अत्र सतां योगः । 'दुराः' इत्यादौ त्वसतां योगः । नववयःप्रभृतिहि सत्यपि शोभनत्वे सर्वेषामप्यशोभनवकथनम् , अशोभनत्वेनैव विरहिण्या भावितत्वात् । 'शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं खाकृतेः । प्रभुधनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥' अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः । तथा हि-शशिनः शोभनत्वं प्रकृतिसौन्दर्यात् , अशोभनत्वं धूस
१. 'यत्तदेतच्छ' का० प्र०. १. 'श्रुति' का० प्र०.