________________
२८४
काव्यमाला । सदृशदर्शनात्स्मरणं स्मृतिः।
पूर्वोपलब्धस्यार्थस्य तादृशदर्शनासंस्कारोबोधे सति यत्स्मरणं सा स्मृतिः। यथा--.
'अदृश्यन्त पुरस्तेन खेलाः खञ्जनपतयः ।
अस्मर्यन्त च निःश्वस्य प्रियानयनविभ्रमाः ॥' विपर्ययो भ्रान्तिः । सदृशदर्शनाद्विपर्ययज्ञानं भ्रान्तिः । यथा'नीलेन्दीवरशङ्कया नयनयोर्बन्धूकवुद्धयाधरे
पाणी पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः। लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा
दुर्वारा मधुपाः कियन्ति भवती स्थानानि रक्षिष्यति ॥' न चैतद्रूपकं प्रथमा वातिशयोक्तिः । तत्र वस्तुतो भ्रमस्याभावात् ॥ क्रियाफलाभावोऽनर्थश्च विषमम् । न केवलं क्रियाफलाभावोऽर्थात्कर्तुर्यावदनर्थश्च भवति यत्र तद्विषमम्। यथा--- 'उत्कण्ठा परितापो रणरणको जागरस्तनोस्तनुता ।
फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्ट्वा ॥" अत्र मृगलोचनादर्शनेन न केवलं सुखं न प्राप्तम्, यावद्विच्छेदे उत्कण्ठादिरनर्थः प्राप्तः ॥ योग्यतया योगः समम् । उत्कृष्टमुत्कृष्टस्य निकृष्टं निकृष्टस्य योग्यमिति योग्यतया योगः समम्।
यथा--
'धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी
देवो रूपेऽप्ययमनुपमे दत्तपत्रः स्मरस्य । १. 'रूपो देवो' का०प्र०, २. 'पमो' का० प्र०.
-
-
-