________________
६ अध्यायः
काव्यानुशासनम् ।
२८३
'यो बलौ व्याप्तभूसीनि मखेन द्यां जिगीषति ।
अभयं स्वर्गसद्मभ्यो दत्त्वा जग्राह खर्वताम् ॥' अत्रोत्कृष्टेनाभयेन निकृष्टस्य खर्वत्वस्य । 'तस्य च प्रवयसो जटायुषः खर्गिणः किमिव शोच्यतेऽधुना ।
येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्वलं यशः ॥' अत्र निकृष्टेनोत्कृष्टस्य ॥ हेतोः साध्यावगमोऽनुमानम् ।
अन्यथानुपपत्त्यैकलक्षणाद्धेतोः साध्यस्य जिज्ञासितार्थस्य प्रतीतिर्यत्र वर्ण्यते तदनुमानम् । यथा'सानुज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः ।
कथमन्यथा ललाटे यावकरसतिलकपतिरियम् ॥' यथा वा
'निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि ।
अन्यथानुपपत्त्यैव पयोधरभरस्थितेः ॥' यथा वा
'संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूलं लीलापमं निमीलितम् ॥' अत्र कमलिनीमीलनेन निशासमयः प्रतिपाद्यत इत्यनुमानमेवेदम् ॥ वससि वाचि पुनः खलानाम् ॥' खर्वतामिति । वामनताम् ॥ स्वर्गिण इति । यश:शेषतां गतस्येत्यर्थः ॥ अर्थस्येति । भावरूपस्याभावरूपस्य वा । तत्र भावरूपसाध्यार्थप्रतीतिः 'सानुज्ञम्-' इत्यत्र निदर्शिता । अभावरूपसाध्यार्थप्रतीतिस्तु यथा--'पण्णवसि अव्वअच्छसि सव्वं विअ सो तएण सव्व विओ। णहु होन्ति तम्मि दिद्वे...... 'सच्छावच्छाई ॥' अत्रादर्शनं साध्यते ॥ निर्णतुं शक्यमस्तीति । अत्र स्तननितम्बयोर्मध्ये मध्यं नोपलभ्यते, स्तनभरावस्थानं च दृश्यते, तत्रेयं पयोधरभरस्थितिः सान्यथानुपपद्यमानाधारकं मध्यमनुपलभ्यमानं बोधयति । उदाहरणान्तरस्य चास्यायमभिप्रायः । यथा केनचिदर्थापत्तिलक्षणोऽलंकारः पृथग्लक्षितस्तथा न लक्षणीयोऽर्थापत्तिलक्षणत्वादनुमानस्येति । अनुमानमेवेदमिति । न तु सूक्ष्मम् , अनुमानान्तर्भूतत्वात्सूक्ष्मस्येति
१. 'कमलनिमीलनेन' इति स्यात्.