________________
१९०
काव्यमाला। यथा वानुप्रासे----- 'चक्री चक्रारपति हरिरपि च हरीन्धूर्जटिवूर्वजान्ता
नृक्षं नक्षत्रनाथोऽरुणमपि वरुणस्तुम्बरागं कुबेरः । रंहःसंघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य
स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ।। अत्र कर्तृकर्मप्रतिनियमेन स्तुतिरनुप्रासानुरोधेनैव कृता न पुराणादिषु तथा प्रतीता । कदाचिच्चक्रिणश्चक्रारप्रियत्वं संभाव्येतापि तु उत्तराणि तु न तथा संगच्छन्ते इति प्रसिद्धिविरोधः । ___ यथा वोपमायाम्-'ग्रश्नामि काव्यशशिनं विततार्थरश्मिम् ।' अत्र काव्यस्य शशिना अर्थानां च रश्मिभिः साधर्म्यं न प्रसिद्धम् । तथा--
'चकास्ति वदनस्यान्तः स्मितच्छाया विकासिनः ।
उन्निद्रस्यारविन्दस्य मध्यगा चन्द्रिका यथा ॥ . अत्र मध्यगतचन्द्रिकयारविन्दस्योन्निद्रत्वमसंभवमिति प्रसिद्धिविरुद्धत्वम् ।
कलाचतुर्वर्गशास्त्राणि विद्या । कलाश्च गीतनृत्यचित्रकर्मादिकाः । तत्र गीतविरुद्धत्वम् । यथा---
'श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः ___ सततमृषभहीनं भिन्नकीकृत्य षड्जम् । प्रणिजगदुरकाकि श्रावकस्निग्धकण्ठाः
परिणतिमिति रात्रेर्मागधा माधवाय ॥ . श्रुतिसमधिकमिति । श्रुत्या समधिकं पञ्चश्रुतिकमित्यर्थः। पीडयन्त इति श्रुतिहासेनाल्पीकुर्वन्त इत्यर्थः । भिन्नकीकृत्य षड्जमिति । भिन्नषड्ज कृत्वेत्यर्थः । प्रातःकाले भिन्नषड्जो गेय इत्यामायात् । अत्र भिन्नषड्जेन माधवी(गधी) गीतिरुपनिबद्धा । तस्यां च पञ्चमस्य ऋषभवदसंभव एव दूरे पुनः श्रुतिसमधिकत्वम् । यतो भिन्नषड्जस्येदं लक्षणम्-'धांशस्तु धैवतन्यासः पञ्चमर्षभवर्जितः । षड्जोदीच्यवती जातेभिन्नषड्ज उदाहृतः ॥' त्यर्थः ॥धांश इति । धैवतांश इत्यर्थः । षड्जोदीच्यवती जातेरिति । जातयो