SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ काव्यमाला | 'गाम्भीर्यमहिमा तस्य सत्यं गङ्गाभुजङ्गवत् । दुरालोकः स समरे निदाघाम्बररत्नवत् ॥' अत्रेवार्थे तुल्यार्थे च वतिस्तद्धितः । २४२ एकद्वित्रिलोपे लुप्ता | उपमानादीनां मध्यादेकस्य द्वयोस्त्रयाणां वा यथासंभवं लोपे लुप्तो पमा । सा च वाक्ये वृत्तौ च । एकलोपे वाक्यगता यथा 'अनाधिव्याधिसंबाधममन्दानन्दकारणम् । न किंचिदन्यदस्तीह समाधेः सदृशं सखे ॥ अत्र यद्यपि सदृशशब्दाभिधेयस्योत्कृष्टतरगुणत्वेनाप्राप्यताप्रतिपादनादुपमानत्वं बलादायातम्, तथापि तस्य साक्षादनिर्देशादुपमानस्य लोपः । तथा ‘धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः । करणीयं वचश्चेतः सत्यं तस्यामृतं यथा ॥ अत्राह्लादकत्वादिधर्मलोपः । उपमेयोपमावाचकयोस्तु वाक्ये लोपो नं संभवति । . द्विलोपे यथा A 'ढुण्ढेिल्लिन्तु मरीहिसि कण्टयकलियाई केयइवणाई | माइकुसुमेण समं भमर भमन्तो न पाविहिसि ॥' अत्र धर्मोपमानयोर्लोपः । वृत्तौ एकलोपे यथा - 'अनाधिव्याधिसंबाधममन्दानन्दकारणम् । न किंचिदन्यदस्तीह समाधिसदृशं सखे ॥' अत्र समासे उपमानस्यानिर्देशः । १. 'दुदुजन्त' का० प्र०. 'अन्वेषयन्मरिष्यसि कण्टककलितानि केतकीवनानि । मालती कुसुमेन समं भ्रमर भ्रमन्नपि न प्राप्स्यसि ॥ [ इति च्छाया ॥]
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy