________________
६ अध्यायः]
काव्यानुशासनम् ।
२४७
अत्रोपमानोपमेययोरवयविनोः समस्तविपया, अवयवानां चैकदेशविषया ॥
'तवाननमिवाम्भोजमम्भोजमिव ते मुखम् ।
निलीनां नलिनीखण्डे कथं तु त्वां लभेमहि ॥ अत्रोभयोरुपमेयत्वे उपमानत्वे चोपमेयोपमा ॥
'त्वन्मुखं त्वन्मुखमिव त्वदृशौ त्वदृशाविव ।
स्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ॥' अत्रैकस्येवोपमानोपमेयत्वेऽनन्वयः॥ 'उभौ यदि व्योनि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥' अत्रासद्भूतस्योपमानसंभावनादुत्पाद्योपमा ॥ 'तासां तु पश्चात्कनकप्रमाणां काली कपालाभरणा चकाशे । बलाकिनीनीलपयोदराजिः पुरः परिक्षिप्तशतहदेव ॥
अन यथेष्टं विशेषणैरुपमेयं परिकल्प्य तादृशमेव सिद्धमुपमानमुपात्त. मिति कल्पितोपमेत्यादि । आसां हि पृथग्लक्षणकरणे एवंविधवैचित्र्यसहस्रसंभवादतिप्रसङ्गः स्यादिति ॥
असद्धर्मसंभावनमिवादियोत्योत्प्रेक्षा ।
प्राकरणिकेऽर्थे ये धर्मा गुणक्रियालक्षणास्तदभावलक्षणा वा तेषां संभावनं तद्योगोत्प्रेक्षणमुत्प्रेक्षा । सा चेव-मन्ये-शङ्के-ध्रुवं-प्रायो-नूनमित्यादिभिः शब्दैोत्यते ।
रामस्य ॥ तदभावलक्षणेति । गुणक्रियाभावलक्षणः । तद्योगोत्प्रेक्षणमिति । अन्यधर्माणां स्वधर्मीभूताद्वस्तुन उत्कलितानां रसभावाभिव्यक्तयनुगुणतया वस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणमित्यर्थः । हृद्यग्रहणानुवृत्तेर्लोकातिक्रान्तगोचरत्वमस्या अभ्यनुज्ञातमेव । तेन यत्र कुतश्चिनिमित्ताहौकिक्येव धर्माणां संभावना, न तत्रोत्प्रेक्षा। न हि 'भारं वह तीव पुंगवः', 'पयो ददातीव स्त्रीगवी' इत्युत्प्रेक्षा प्रवर्तते, लोकातिकान्त