________________
७ अध्यायः ]
काव्यानुशासनम् ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्गच नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥'
३१५
दीप्तिर्यथा
'आलोलामलकावली विलुलितां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः खेदाम्बुनः शीकरैः । तन्व्या यत्सुरतान्तकान्तनयनं वक्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरस्कन्दादिभिर्दैवतैः ॥' चेष्टामसृणत्वं माधुर्यम् ।
ललितेषु व्रीडादिषु यथा मसृणत्वं चेष्टायास्तथा दीप्तेष्वपि क्रोधादिषु यत्तन्माधुर्यम् । यथा—
' कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः
शिरस्याज्ञा न्यस्ता प्रतिवचनमत्यानतिमतिः । न दृष्टेः शैथिल्यं मिलितमिति चेतो दहति मे निगूढान्तः कोपा कठिनहृदये संवृतिरियम् ॥' अचापलाविकत्थनत्वे धैर्यम् । चापलानुपहतत्वमात्मगुणानाख्यानं च धैर्यम् । यथा'ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयितः श्लाध्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ॥' प्रश्रय औदार्यम् ।
अमर्ष्या क्रोधाद्यवस्थाखपि प्रश्रय औदार्यम् । यथा'भ्रूभङ्गे सहसोद्वतेऽपि वदनं नीतं परां नम्रता
मीषन्मां प्रतिभेदकारि हसितं नोक्तं वचो निष्ठुरम् । अन्तर्वाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं
क्रोधश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः ॥'