________________
काव्यानुशासनम् ।
'गतोऽस्तमर्क:' इत्यादौ प्रदर्शितनयेन संख्यायाः 'कस्स व -' इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च भेदेऽपि यद्येकत्वं तत्वचिदपि नीला नीलादौ भेदो न स्यात् । उक्तं हि — 'अयमेव भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः करणभेदश्चेति वाचकाना - मर्थापेक्षा, व्यञ्जकानां तु न तदपेक्ष्यत्वमपीति न वाचकत्वमेव व्यञ्जकत्वम् । किं च । 'वाणीरकुडंग-' इत्यादौ प्रतीयमानमर्थमभिव्यज्य वाच्यं खरूप एव यत्र विश्राम्यति तत्र मध्यमकाव्यप्रभेदे तात्पर्यभूतोऽप्यर्थः स्वशब्देनाभिधेयः । प्रतीति प्रथमवतरन्कस्य व्यापारस्य विषयतामवलम्बताम् ॥ ननु 'रामोऽस्मि सर्व सहे' इति 'रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम्' इति । 'रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्' इत्यादौ लक्षणीयोऽप्यर्थो नानात्वं भजते विशेषव्यपदेशहेतुश्च भवति तदवगमश्च शब्दार्थायत्तः प्रकरणादिसव्यपेक्षश्चेति कोऽयं नूतनः प्रतीयमानो नाम । उच्यते-- लक्षणीयस्यार्थस्य नानात्वेऽप्यनेकार्थशब्दाभिधेयवन्नियतत्वमेव न खलु मुख्येनार्थेनानियतसंवन्धो लक्षयितुं शक्यते, व्यङ्गयस्तु प्रकरणादिविशेषवलेन नियतसंबन्धोऽनियतसंबन्धः संबन्धसंबन्धश्च द्योत्यते । न च 'भम धम्मिय' इत्यादौ अर्थशक्तिमूले व्यङ्गये मुख्यार्थबाधस्तत्कथमत्र लक्षणायामपि व्यञ्जनमवश्यमाश्रयितव्यम् । यथा च समयसव्यपेक्षाभिधा । तथा मुख्यार्थवाधादित्रय समय सव्यपेक्षा लक्षणा । अत एव अभिधापुच्छभूता सा इत्याहुः । न च लक्षणात्मकमेव ध्वननं तदनुगमेन त्स्य दर्शनात् । न च तदनुगतमेव । अभिधालम्बनेनापि तस्य भावात् । न चोभयानुसार्येव, अवाचकवर्णानुसारेणापि तस्य दृष्टेः । न च शब्दानुसार्येव अशब्दात्मक नेत्रत्रिभागावलोकनादिगतत्वेनापि तस्य सिद्धेः । इत्यभिघातात्पर्यलक्षणात्मकव्यापारत्रयातिवर्ती अञ्जनव्यापारोऽवपह्नवीय एवेति सिद्धमेव निषेधस्य व्यङ्ग्यत्वम् । तत्र 'अत्ता एत्थ - ' इत्यादौ नियतसंबद्धः । ' कस्स व ण होइ रोसो - ' इत्यादावनियत संबद्धः । 'विवेरीयरए लच्छी बम्भं दहूँणं णाहिकमलत्थम् । हरिणो दाहिणणयणं रसाउला झत्ति ढक्केइ ||' इत्यादी संबद्धसंबन्धः । अत्र हि हरिपदेन दक्षिणनयनस्य सूर्यात्मता व्यज्यते । तन्निमीलनेन सूर्यस्यास्तमयस्तेन पद्मस्य संकोचः ततो ब्रह्मणः स्थगनं तत्र सति गोप्याङ्गस्यादर्शनेऽनियन्त्रणं निधुवनविलसितम् । येऽप्याहु: - ' अखण्डवुद्धिनिर्माह्यं वा क्यमेव च वाचकम् । वाक्यार्थ एव वार्थ:-' इति, तैरप्यविद्यापदपतितैः पदपदार्थकल्पना कर्तव्यैवेति । तत्पक्षेऽप्यवश्यमेव निषेधस्य व्यङ्ग्यत्वम् । अन्ये तु —वाच्या दसंबद्धं तावन्न प्रतीयते । यतः कुतश्चिद्यस्य कस्यचिदर्थस्य प्रतीतेः प्रसङ्गात् । एवं च संबन्धाद्यङ्गयंव्यञ्जकभावोऽवश्यमप्रतिबन्धे न भवतीति त्रिरूपाद्धेतोरेव नियतधर्मिनिष्ठत्वेन प्रतीतिः । तथा च भीरुभ्रम [ण]स्य कारणं भयकारणाभावस्तद्विरुद्धं च भयकारणम् सिंहस्तदुपलब्धेर्लतागहनेऽभ्रमणमनुमीयत इति विध्यादावपि वाच्ये सिंह
१.
'विपरीतर ते लक्ष्मीर्ब्रह्माणं दृष्ट्वा नाभिकमलस्थम् |
हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति ॥' [इति च्छाया ]
२९
C