________________
५ अध्यायः ]
काव्यानुशासनम् ।
२२३
किंविधा । या स्मृतिः प्रकृष्टा तपोवृत्तिः । देवीस्मरणमेव परमं तप इत्यर्थः । अनियतावयवं यमकमिदम् ॥ ' प्रवादिमतभेदेषु दृशास्ते महिमाश्रयः । भान्ति त्वन्निशि खस्येव शिखानामसमाश्रयः ॥' दर्शनानि महिनामाश्रयः । यानि प्रवादिनां भिन्नानि ज्ञानानि तास्त्वदीया दृष्टय इति तात्पर्यम् । भवत्रिशूलस्य कोटीनां विषमधारा इव । अन्तयमकम् ॥ ‘यच्चेष्टया तव स्फीतमुदारवसु धामतः । तच्चेतो यात्यवहितं मुदा रवसुधामतः ॥' यच्चेतस्तव श्रवणचिन्तनाध्ययनादिव्यापारेण विकसितं सावधानं च । अत एव शाश्वतधनरूपम् । तच्चेतो हर्पेणोपलक्षितं धामतोऽतो मोक्षलक्षणात् खसुधां शब्दामृतं शब्दब्रह्मोदयं याति । गोमूत्रिकावन्धो यमकं वा ॥ ' सुरदेशस्य ते कीर्तिर्म - ण्डनत्वं नयन्ति यैः। वरदे शस्यते धीरैर्भवती भुवि देवता ॥' स्वर्गस्य । ते पुमांसः । हे वरदे | धीरैरविकृतचित्तैः । तेषां कीर्तिः स्वर्ग यातीति भावः । अनियतावयवं यमकम् ॥ पादपरावृत्त्या गोमूत्रिकापि ॥ 'तत्त्वं वीतावततनुत्तत्त्वं ततवती ततः । वित्तं चित्तं च वित्तत्वं वीतावीतवतां वत ॥' यतस्त्वं भवती तत्तत्वं परब्रह्मखरूपम् । वीतावततनुत् विगतविस्तीर्णव्यथम् । विस्तारितवती । सांख्यानां त्वमेव यस्मात्सर्वत्र प्रधानमित्यर्थः । ततो हेतोर्हे वित् विद्ये, वीतसंज्ञाश्च सांख्यानां प्रधानपुरुषसैद्भावका दश हेतवस्तद्वत्तां सांख्यानां तव वित्तत्वं वित्तं भवत्या धनत्वं प्रतीतम् । त्वं धनं प्रसिद्धमित्यर्थः । वतेत्याश्चयें । व्यक्षरः ॥ ' तारे शरणमुच्यन्ती सुरेशरणमुद्यमैः । त्वं दोपापासिनोदग्रवदोपा पासि नोदने ॥' हे ताराख्ये देवि विमले, वस्त्वं शरणं सती आश्रितत्राणायोत्तिष्टमाना । शक्रस्य संग्रामम् । व्यापारैः । दोपक्षेपणा निजवाहुना रक्षसि । प्रेरणकाले पलायितारो देवा भवतीं शरणमेत्य पुनः संग्रामसमर्थाः संपद्यन्त इति वाक्यार्थः । उद्यन्तीत्यत्र मुँन् चिन्त्यः | अनियतावयवं यमकम् । पादगोमूत्रिकापि ॥ प्रागुक्तेन 'सुरदेशस्य ते कीर्तिः' इत्यनेन पादपरावृत्तिगोमूत्रिकाबन्धेन सह अमुना पादगोमूत्रिकाबन्धन तूणवन्धेयम् । तथा हि । प्राक्तनश्लोकस्य प्रथमतृतीयपादाक्षरैरधोधः क्रमेण पङ्क्तिद्वये कृते गोमूत्रिकया नालिरुत्पद्यते । अनावृत्त्यान्त्यवर्णाभ्यां चुन्नम् । तदुपरिष्टाच 'तारे' इत्यादिश्लोकपादैरूर्ध्वक्रमेण पतिचतुष्टये कृते पादगोमूत्रिकया मुखम् । अन्त्यानां वर्णानामनावृत्त्या शराकर्षणार्थं द्वारप्रादेशदर्शनम् । इति ॥ 'सुमातरक्षयालोकरक्षयात्तमहामनाः । त्वं धैर्य जननी पासि जननीतिगुणस्थितीः ॥' अक्षयज्ञानरक्षणेन । गृहीतं महन्मनो यया । धैर्यात्पादिका । अनियतावयवं मध्यादियमकम् ॥ ‘ख्यातिकल्पनदक्षैका त्वं सामर्ग्यजुपामितः । सदा सरक्षसां मुख्यदानवानामसुस्थितिः ॥' ख्यातिरेकत्र वेदानामन्यत्र दानवानां कल्पनं छेदनमिति । अद्वितीया ।
१. 'शस्ते' इति देवीशतके. २. 'वित्तव' इति देवीशतके. ३. 'वीतसंज्ञा - अवीतसंज्ञा च सांख्यानाम्' इति देवीशतकव्याख्यायां कैयटः ४. 'सद्भावा वेदका देश हे -' इति देवीशतकव्याख्यायां कैयट : ५. 'तद्वतां' इति देवीशतकव्याख्या६. 'मुद्यन्ती' इति देवीशतके. ७. 'नुम्' स्यात्.