________________
२ अध्यायः]
काव्यानुशासनम् ।
तदनुकारणत्वम् असंवेद्यमात्रस्य वस्तुवृत्तत्वानुपपत्तेः । न च मुनिवचनमेवंविधमस्ति क्वचित्स्थाय्यनुकरणं रस इति ॥ यच्चोच्यते-वर्णकैहरितालादिभिः संयुज्यमान एव गौरित्यादि, तत्र यद्यभिव्यज्यमान इत्यर्थोऽभिप्रेतः । तदसत् । न हि सिन्दूरादिभिः पारमार्थिको गौरभिव्यज्यते, प्रदीपादिभिरिव । किं तु तत्सदृशः समूहविशेषो निवर्त्यते। त एव हि सिन्दूरादयो गवावयवसंनिवेशसदृशेन संनिवेशविशेषेणावस्थिता गोसदृगिति प्रतिभासस्य विषयो नैवं विभावादिसमूहो रतिसदृशताप्रतिग्रायः । तस्माद्भावानुकरणं रस इत्यसत् ॥ येन त्वभ्यधायि सुखदुःखजननशक्तियुक्ता विषयसामग्री वाह्मैव सांख्यदृशा सुखदुःखखभावा रसः । तस्यां सामग्र्यां दलस्थानीया विभावाः संस्कारका अनुभावव्यभिचारिणः स्थायिनस्तु तत्सामग्रीजन्या आन्तराः सुखदुःखखभावा इति । तेन स्थायिभावान् रसत्वमुपनेष्याम इत्यादावुपचारमङ्गीकुर्वता ग्रन्थविरोधं खयमेव बुध्यमानेन दूषणाविष्करणमौर्यात्प्रामाणिकजनः परिरक्षित इति किमस्योच्यते यत्त्वन्यत्तत्प्रतीतिवैषम्यप्रसङ्गादि तत्कियदत्रोच्यताम् ॥ भट्टनायकस्त्वाह-'रसो न प्रतीयते, नोत्पद्यते, नाभिव्यज्यते । खगतत्वेन हि प्रतीतौ करुणे दुःखित्वं स्यात् । न च सा प्रतीतिर्युक्ता सीतादेरविभावत्वात् । खकान्तास्मृत्यसंवेदनात् । देवतादौ साधारणीकरणायोग्यत्वात् । समुद्रोल्लङ्नादेरसाधारण्यात् । न च तत्त्वतो रामस्य स्मृतिरनुपलब्धत्वात् । न च शब्दानुमानादिभ्यस्तत्प्रतीतौ ताटस्थ्यमेव भवेत्तत्प्रतीतिरनुभवस्मृत्यादिरूपा रसस्य युक्ता ॥ उत्पत्तावपि तुल्यमेतत् दूषणम् । शक्तिरूपत्वेन पूर्व स्थितस्य पश्चादभिव्यक्तौ विषयार्जनतारतम्यापत्तिः । खगतपरगतत्वादि च पूर्ववद्विकल्प्यम् । तस्मात्काव्ये दोषाभावगुणालंकारमयत्वलक्षणेन, नाट्ये चतु. विधाभिनयरूपेण निविडनिजमोहसंकटतानिवारणकारणाविभावादिसाधारणीकरणात्मनाभिधातो द्वितीयेनांशेन भावकत्वव्यापारेण भाव्यमानो रसोऽनुभवस्मृत्यादिविलक्षणेन रजस्तमोनुवेधवैचित्र्यवलात् हृदि विस्तरविकाशात्मना सत्त्वोद्रेकप्रकाशानन्दमयनिजसंविद्विश्रान्तिविलक्षणेन परब्रह्मास्वादसविधेन भोगेन परं भुज्यते' इति ॥ यत्स वाह-अभिधा भावना चान्या तद्भोगीकृतमेव च । अभिधाधामतां याते शब्दार्थालंकृती ततः ॥ भावनाभाव्य एषोऽपि शृङ्गारादिगणो मतः । तद्भोगीकृतरूपेण व्याप्यते सिद्धिमान्नरः ॥' इति ॥ तत्र पूर्वपक्षोऽयं भट्टलोल्लटपक्षादभ्युपगत इति । तदूषणमनुत्थानोपहतमेव । प्रतीत्या दिव्यतिरिक्तश्च संसारे को भोग इति न विद्मः । रसेनेति चेत् । सापि प्रतिपत्तिरेव । केवलमुपायवैलक्षण्यानामान्तरं प्रतिपद्यतां दर्शनानुमितिश्रुत्युपमितिप्रतिभानादिनामान्तरवत् । निष्पादनाभिव्यक्तिद्वयानभ्युपगमे च तिस्रो वा सदा रस इति न तृतीया गतिः स्यात् न चाप्रतीतं वस्त्वस्ति तद्यवहारयोग्यम् ॥ अथो. च्यते-प्रतीतिरस्य भोगीकरणम् । तच्च रत्यादिखरूपं तदस्तु तथापि न तावन्मात्रम् । यावन्तो हि रसास्तावत्य एव रसात्मानः प्रतीतयो भोगीकरणखभावाः सत्त्वादिगु
१. 'मौखर्या' स्यात्.