________________
काव्यमाला।
णानां चाङ्गाद्वैचित्र्यमनन्तकल्प्यमिति का त्रित्वेनेयत्ता । 'भावनाभाव्य एषोऽपि शृङ्गारादिगणो हि यत् ।' इति तु यत् 'काव्येन भाव्यन्ते रसाः' इत्युच्यते, तत्र विभावादिजनितचर्वणात्मकास्वादरूपप्रत्ययगोचरतापादनमेव यदि भवेद्भावनं तदभ्युपगम्यत एव ॥ यत्तूक्तम्-'संसर्गादि यथा शास्त्र एकत्वात्तलयोगतः । वाक्यार्थस्तद्वदेवात्र शृङ्गारादी रसो मतः ॥ इति, तदस्माकमभिमतमेव । तर्हि उच्यताम् परिशुद्धतत्त्व उक्तमेव मुनिना नत्वपूर्व किंचित् । तथा ह्याह-'काव्यार्थी भावयन्तीति भावाः' । अस्यार्थ:--पदार्थवाक्याौँ रसेष्वेव पर्यवस्यत इत्यसाधारण्यात्प्राधान्याञ्च काव्यस्यार्था रसाः । अर्थ्यन्ते प्राधान्येनेत्यर्थाः, न त्वर्थशब्दोऽभिधेयवाची । खशब्दानभिधेयत्वं हि रसादीनां दर्शितमेव । एवं काव्यार्था रसाः, तान् कुर्वते ये स्थायिव्यभिचारिणस्ते भावाः, स्थायिव्यभिचारिकलापेनैव ह्याखाद्योऽलौकिकोऽर्थों निर्वर्त्यते । पूर्व हि स्थाय्यादिकमवगच्छति ततः सर्वसाधारणतया आखादयति । तेन पूर्वागमगोचरीभूतः सन् स्थाय्यादिरुत्तरभूमिकामागिन आखाद्यस्य रसस्य भावको निष्पादक । उच्यते । तस्मात्काव्यार्थो रस इति । तथा हि-आरोग्यमाप्तवान् शश्वत्स्तुत्वा देवमहर्पतिम् । स्यादर्थावगतिः पूर्वमित्यादिवचने यथा ॥ ततश्चोपात्तकालादिन्यकारेणो. पजायते । प्रतिपत्तुर्मनस्येवं प्रतिपत्तिर्न संशयः ॥ यः कोऽपि भास्करं स्तौति स सर्वोऽप्यगदो भवेत् । तस्मादहमपि स्तौमि रोगनिर्मुक्तये रविम् ॥' इति । एवं काव्यात्मकादपि शब्दात्सहृदयस्याधिकास्ति प्रतिपत्तिर्न संशयः । तस्य च 'ग्रीवाभङ्गाभिरामम्-' इत्यादिवाक्येभ्यो वाक्यार्थप्रतिपत्तेरनन्तरं मानसी साक्षात्कारात्मिका अपहस्तिततद्वाक्योपात्तकालादिविभागा तावत्प्रतीतिरुपजायते । तस्यां च यो मृतपोतकादिर्भाति तस्य विशेषरूपत्वाभावाद्भीत इति । त्रासकस्यापारमार्थिकत्वाद्भयमेव परं देशकालाधनालिङ्गितं तत एव भीतोऽहम् । भीतोऽयं शत्रुर्वयस्यो मध्यस्थो वेत्यादिप्रत्ययेभ्यो दुःखसुखादिकृतहान्यादिवुद्धयन्तरोदयनियमवत्तया विघ्नबहुलेभ्यो वि. लक्षणनिर्विघ्नप्रतीतिग्राह्य साक्षादिव हृदये निवेशमानं चक्षुषोरुपरिवर्तमानं भयानको रसः । तथाविधे हि भये नात्मा तिरस्कृतो निर्विशेषत उल्लिखितः । एवं परोऽपि । तत एव च न परिमितमेव साधारण्यम् । अपि तु विततम् । व्याप्तिग्रह इव धूमाम्युभयरूपयोरेव वा । तदत्र साक्षात्कारायमाणत्वपरिपोषिका नटादिसामग्री । यस्यां वस्तुमतां काव्यार्पितानां च देशकालप्रमात्रादीनां नियमहेतूनामन्योन्यसंबन्धवलादत्यन्तमपसरणे स एव साधारणीभावः सुतरां पुष्यति । अत एव सामाजिकानामेकधनतैव प्रतिपत्तेः सुतरां रसपोषाय सर्वेषामनादिवासनाचित्रीकृतचेतसां वासनासंवादात् । सा चाविना संविच्चमत्कारतज्जोऽपि कम्पपुलकोल्लुकसनादिर्विकारश्चमत्कारो यथा-'अज्ज विहरी चमकइ कहकह वि न मंदरेण कलिआई । चंदकलाकंदलसच्छहाई लच्छीई अंगाई ॥' अद्भुतभोगात्मस्पन्दावेशरूपो हि चमत्कारः । स च साक्षात्कारखभावो मानसाध्यवसायो वा संकल्पो वा स्मृतिर्वा तथात्वेन स्फुरन्त्यस्तु । यदाह-रम्याणि वीक्ष्य