________________
६०
काव्यमाला |
कार्ये सुशिक्षितेन तथा ज्ञाते वस्त्वन्तरस्यानुमानं तावयुक्तम् । असुशिक्षितेन तु तस्यैव प्रसिद्धस्य कारणस्य यथा वृश्चिकविशेषाद्गोमयस्यैवानुमानं वृश्चिकस्यैव वा तत्परं मिथ्याज्ञानम् । प्रसिद्धा इति लक्षणात्कारणा इत्यनुकरणं नाम कारणान्तरं तत्प्रभवाश्चेदनुभावाः स्युः । तथैव च विशेषभेदा यदि ज्ञायेरंस्तदा रत्यनुकरणलक्षणस्य वस्त्वन्तरस्यानुमानं समञ्जसं स्यात् । न चैवं तत्कथमिव रत्यनुकरणप्रतीतिः । अविशेषविदा च ! तथाविधानुभावदर्शने रतिरेवानुमीयते तच्च मिथ्याज्ञानमेवेति । यत्रापि लिङ्गज्ञानं मिथ्या तत्रापि तदाभासानुमानमयुक्तम् । न हि वाष्पधूमत्वेन ज्ञानादन्यनुकारानुमानं तदनुकारत्वेन प्रतिभासमानादपि लिङ्गान्न तदनुकारानुमानं युक्तं धूमानुकारत्वेन हि ज्ञायमानान्नीहारान्नाभ्यनुकारजपापुञ्जप्रतीतिर्दृष्टा ॥ नन्वक्रुद्धोऽपि नटः क्रुद्ध इव भाति । सत्यम्, क्रुद्धेन सदृशः सादृश्यं च भ्रुकुय्यादिभिर्गोरिव गवयेन मुखादिभिरिति नैतावतानुकारः कश्चित् । न चापि सामाजिकानां सादृश्यमतिरस्ति । सामाजिकानां च न भावशून्या नर्तके प्रतिपत्तिरित्युच्यते । अथ च तदनुकारप्रतिभास इति रिक्ता वाचोयुक्तिः । यच्चोक्तं रामोऽयमित्यस्ति प्रतिपत्तिः, तदपि यदि तदात्वे निश्चितं तदुत्तरकालभाविबाधकवैधुर्याभावे कथं न तत्त्वज्ञानं स्यात् । बाधकसद्भावे वा कथं न मिथ्याज्ञानम् । वास्तवेन च वृत्तेन वाधकानुदयेऽपि मिथ्याज्ञानमेव स्यात् । तेन विरुद्धवृद्ध्यसंभेदादित्यसत् । नर्तकान्तरेऽपि रामोऽयमिति प्रतिपत्तिरस्ति । ततश्च रामत्वं सामान्यरूपमित्यायातम् ॥ यच्चोच्यते - विभावाः काव्यादनुसंधीयन्ते । तदपि न विद्मः । न हि ममेयं सीता काचिदिति वात्मीयत्वेन प्रतिपत्तिर्नटस्य ॥ अथ सामाजिकस्य तथा प्रतीतियोग्याः क्रियन्ते इत्येतावदेवानुसंधानमुच्यते, तर्हि, स्थायिनि सुतरामनुसंधानं स्यात् । तस्यैव हि मुख्यत्वेन अस्मिन्नयमिति सामाजिकानां प्रतिपत्तिः ॥ तस्मात्सामाजिकप्रतीत्यनुसारेण स्थाय्यनुकरणं रस इत्यसत् । न चापि नटस्येत्थं प्रतिपत्तिः रामं तच्चित्तवृत्ति वा अनुकरोमीति । सदृशकरणं हि तावदनुकरणमनुपलब्धप्रकृतिना न शक्यं कर्तुम् ॥ अथ पश्चात्करणमनुकरणम्, तल्लोकेऽप्यनुकरणात्मतातिप्रसक्ता ॥ अथ न नियतस्य कस्यचिदनुकारोऽपि तच्च सप्रकृतेः शोकमनुकरोमीति । तत्रापि कस्योन्तमर्हि (?) केनेति चिन्त्यम् । न तावच्छोकेन, तस्य तदभावात् । न चाश्रुपातादिना शोकस्यानुकारः, तद्वैलक्षण्यादित्युक्तम् । इयत्तु स्यात् उत्तमप्रकृतेर्ये शोकानुभावास्ताननुकरोमीति । तत्रापि कस्योत्तमप्रकृतेः यस्य. कस्यचि - दिति चेत्, सोऽपि विशिष्टतां विना कथं बुद्धावारोपयितुं शक्यः । य एवं रोदितीति चेत्, स्वात्मापि मध्ये नटस्यानुप्रविष्ट इति गलितोऽनुकार्यानुकर्तृभावः । किं च---- नटः शिक्षावशात्स्वविभावस्मरणाच्चित्तवृत्तिसाधारणीभावेन हृदयसंवादात्केवलाननुभावान्दर्शयन्काव्यमुचितकाकुप्रभृत्युपस्कारेण पठंश्चेष्टत इत्येतावन्मात्रस्य प्रतीतेर्न त्वनुकारं वेदयते । कान्तवेषानुकारवद्धि न रामचेष्टितस्यानुकारः । नापि वस्तुवृत्तानुसारेण
१. 'भासादनु' स्यात्.