________________
५ अध्यायः] काव्यानुशासनम् ।
च्युतं मात्रार्धमात्राबिन्दुवर्णगतत्वेन चतुर्धा । तत्र मात्राच्युतकं यथा
'भूतियोजितभर्तव्यः कृपाणाक्रान्तमण्डलः ।
महापदशुभावास त्वत्समः कुपतिः कुतः ॥'. . अत्र कृपणेति । विभूतिर्भस्म च । महापदेति शुभावासेति संबोधने पदद्वयम् । महापदोऽशुभस्यावासेति पदमेकं च ॥ अर्धमात्राच्युतं यथा
‘पयोधरभराक्रान्ते विद्युल्लेखाविराजिते ।
कान्तः सर्वजनाभीष्टो बाले दुःखेन लभ्यते ॥' अत्र 'न्दु' इत्यत्र नकारो व्यञ्जनं च्युतम् ॥ बिन्दुच्युतं यथा
'सहंसा नलिनी ताराशारिता गगनावनिः ।
शोभते भूमिपालानां सभा च विबुधाश्रिता ॥' सह हसेन विकाशेनेत्यपि ।। हीनमित्यर्थः । चत्वार एते नेमिश्लोकाः। एभ्यश्च प्रथमं प्रथमं त्रीणि त्रीण्यक्षराणि लिख्यन्ते । चतुर्थ चारश्लोकप्रारम्भाक्षरं भवति । इत्थं नेम्यर्धनिमीलनम् । पुनरनुलो
मलिखिताच्छोकषोडशकाच्चैवमेवान्त्यमक्षरं त्रिषु लिखितेषु चतुर्थ भवतीति नेमेर्द्वि. तीयमधैं मीलितं भवति । एवमेव चान्तलिखितैस्तैरेव नेमिश्लोकैर्नाभिनिमीलनं भवति ।
अत एव चारद्वात्रिंशतो नेमिस्थानान्नाभितो वा तृतीयं तृतीयं चाक्षरमादाय वर्णद्वात्रिंशतः श्लोकोऽयमुत्पद्यते॥ 'देव्या स्वप्नोद्मादिष्टदेवीशतकसंज्ञया । देशितानुपमामाधादतो नोणसुतो नुतिम् ॥' देव्या वागीश्वर्या स्वप्नाविर्भावे आदिष्टा या देवी शतकमिति संज्ञा तया देशो निर्देशो विद्यतेऽस्यास्तस्या भावो देशिता तयानुपमां देवीस्तोत्रतया सर्वातिशायिनी नोणसुतः श्रीमानानन्दवर्धननामा स्तुतिमिमामकार्षीदिति ॥ पद्मं यथा'भासते प्रतिभासार रसाभाताहताविभा। भावितात्मा शुभा वादे देवाभा वत ते सभा ॥' हे प्रज्ञातिशयोत्कृष्ट, वादे रसेन समन्ताद्दीप्ता हता अशोभा यया । एकाग्रीकृतहृदया वादे एव । देवैर्विजिगीषुभिः पण्डितैराभा यस्याः । वतेत्याश्चर्ये निपातः । एषोऽष्टदलपद्मवन्धः । तथा हि-भाशब्दः कर्णिकास्थाने । ततोऽक्षरद्वयेनैकं दिग्दलं निःसरणक्रमेण विदिग्दलं चाक्षरद्वयेन प्रवेशक्रमेण । ततः स एव भाशब्दः। ततोऽक्षरद्वयेन दिग्दलं निर्गमप्रवेशाभ्यां भाशब्दं यावत् । ततोऽक्षरद्वयेन विदिग्दलं निर्गमेण तावतैव दिग्दलं प्रवेशेन भाशब्दं यावत् । पुनर्भाशब्दो निर्गमेण च तदेवाक्षरमित्यादिना क्रमेण दलाष्टकमुत्पाद्यमिति दिग्दलवर्णानां द्विर्भाशब्दस्य चाकृष्टत्व आवृत्तिः ॥