________________
"
३ अध्यायः ]
तथा
काव्यानुशासनम् ।
यथा वा व्यतिरेकालंकारे
'तरङ्गय दृशोऽङ्गणे पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् । क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिकामुदञ्चय मनाङ्मुखं भवतु च द्विचन्द्रं नमः ॥' अत्रोपमानानामिन्दीवरादीनां निन्दया नयनादीनामुपमेयानामतिशयो वक्तुं प्रक्रान्तः ‘भवतु च द्विचन्द्रं नमः' इति सादृश्यमात्राभिधानेन निर्व्यूढ इति भग्नप्रक्रमत्वम् । 'भवतु तद्विचन्द्रं नभः' इति तु युक्तम् ।
----
१९३
'तद्वक्रं यदि मुद्रिता शशिकथा, तचेत्स्मितं का सुधा, सा चेत्कान्तिरतन्त्रमेव कनकं, ताश्चेद्विरोधिमधु । सा दृष्टिर्यदि हारितं कुवलयैः किं वा बहु ब्रूमहे
यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ||' अत्रोपमानादुपमेयस्यातिरेकलक्षणं वस्तु वक्तुमिष्टं तस्यार्थान्तरन्यासेन वस्तु सर्गपौनरुक्त्यस्य सादृश्यपर्यवसानाद्भग्नप्रक्रमत्वम् ।
व्यत्यासो नाम गुण एव, न दोषः । तत्रैव चायं ग्रक्रमभेदभ्रमो भवताम् (?) । तत्र युष्मदर्थस्य यथा - 'यथाहं सप्तमो वैकुण्ठावतारः' इति । अत्र हि यथा त्वमिति युष्मदर्थस्य कर्तृत्वं प्रकृतमपहाय चारुत्वाय ततोऽन्यत्रारोप्यैवमुक्तम् । दाशरथिं रामं प्रति हि कस्यचित्समक्ष मियमुक्तिः । अस्मदर्थस्य यथा 'नाभिवादप्रसाद्यो रेणुकापुत्रः । गरीयान् हि गुरुधनुर्भङ्गापराध:' इति । अत्रापि हि नाभिवादप्रसाद्योऽस्मीति वक्तव्ये पूर्ववच्चारुत्वायैवमुक्तम् । एषा हि भार्गवस्यात्मानमुद्दिश्योक्तिः । यथा वा 'अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिगोतुमर्हसि ।' इति । अत्रापि 'अहं प्रष्टुमनाः " इति वक्तव्ये अस्मदर्थस्य कर्तृत्वमन्यत्रारोप्यैवमुक्तम् । द्विविधो धन्यशब्दार्थः । तत्र चेतनेऽन्यत्रारोपो निदर्शित एव । अचेतने तु यथा ' चापाचार्य -' इति । अत्र हि 'त्वं रेणुकाकण्ठबाधां कृतवान्' इति । 'त्वया बद्धस्पर्धोऽहं लजे' इति वक्तव्ये चारुत्वाय युष्मदस्मदर्थयोः कर्तृत्वमुभयोः परशुचन्द्रहासयोर्जडयोरारोप्यैवमुक्तम् ॥ यथा च'हे' लङ्केश्वर दीयतां जनकजा रामः स्वयं याचते कोऽयं ते मतिविभ्रमः स्मरं नयं
१. 'भो' प्रसिद्धः पाठः..