________________
२३६
काव्यमाला |
वीणायां प्रतिबिम्बात्मिकायां रञ्जनात्मकखरखरूपव्यतिरेकेण न काकुसंपत्तिः ॥ यंदाह – 'शीरार्यामथ वीणायां त्रिभ्यः स्थानेभ्य एव तु । उरसः शिरसः कण्ठात्स्वरः काकुः प्रवर्तते ॥' तत्र उरोनिष्पन्नेन तारेण दूरस्थानामाभाषणविधिः कार्यः । यद्वा मन्द्रखरेण पाठमारभ्य क्रमेण तारं गत्वा मध्येन परिसमाप्नुयादित्यभिप्राय: ॥ उदात्तानुदात्तखरितकम्पिता वर्णाः । तत्र हास्य शृङ्गारयोः खरितोदात्तैर्वर्णैः पाठ्यमुपपाद्यम् । वीररौद्राद्भुतेषूदात्तकम्पितैः । करुणवीभत्सभयानकेष्वनुदात्तकम्पितैरिति ॥ द्विविधा तु काकुः साक्षादत्रैव प्रतिपादयिष्यते ॥ 'उच्चो दीप्तश्च मन्द्रश्च नीचो द्रुतविलम्वितौ । पाठ्यास्यैते ह्यलंकारी:-' इति । उच्चो नाम शिरः स्थानगतस्तारः । स च दूरस्थाभाषणविस्मयोत्तरोत्तरसंजल्पत्रासनावादाद्येषु ॥ दीप्तो नाम शिरः स्थानगतस्तारतरः । स चाक्षेपकलह विवादामर्षोत्कुष्टाधर्षणशौर्य दर्पतीक्ष्णरूक्षाभिधाननिर्भर्त्सनाक्रन्दादिषु ॥ मन्द्रो नामोरःस्थानस्थः निर्वेदग्लानचिन्तैौत्सुक्य दैन्य व्याधिगाढशस्त्रक्षतमूर्छामदादिषु ॥ नीचो नामोरःस्थानस्थो मन्द्रतरः । स स्वभावाभाषणव्याधितपःश्रान्तत्र स्वपतितमूछोदिषु ॥ द्रुतो नाम कण्ठगतस्त्वरितलल्लमन्मनभयशीतज्वरार्तत्रस्ताय स्तात्ययिककार्यावेदनादिषु । लल्लं सविलासम् । मन्मनमव्यक्तम् । अहमेव मनो मन्ता यत्रेत्यनेनाश्रूयमाणम् । लल्लमन्मनौ नायिकागतावेव बालविनोदनसान्त्वनादौ । मुञ्च मुञ्चेत्येवंप्रायपराभियोगानङ्गीकरणादौ वेति । आत्ययिकं शीघ्रसंपाद्यं यत्कार्यं तस्यावेदनम् ॥ विलम्बिता नाम कण्ठस्थानस्थो मन्द्रः । शृङ्गारवितर्कविचारामर्षासूयिताव्यक्तार्थप्रवादलजाचिन्तातर्जितविस्मितदीर्घरोगनिपीडनादिषु । 'हास्य शृङ्गारकरुणेष्विष्टा काकुर्विलम्विता । वीररौद्राद्भुतेषूच्चा दीप्ता चापि प्रशस्यते ॥ भयानके सवीभत्से द्रुता नीचा च कीर्तिता । एवं भावरसोपेता काकुः कार्या प्रयोक्तृभिः ॥' अङ्गानि — वि च्छेदोऽर्पणं विसर्गोऽनुबन्धो दीपनं प्रशमनमिति ॥ तत्र विच्छेदो नाम विरामकृतः । अर्पणं नाम लीलायमानमधुरवल्गुवरेण पूरयतेव रङ्गं यत्पठ्यते । विसर्गो नाम वाक्य - न्यासः । अनुवन्धो नाम पदान्तरेष्व विच्छेदोऽनुच्छ्रसनम् । दीपनं नाम विस्थानशोभि वर्धमानखरं च । प्रशमनं नाम तारगतानां खराणामेवैश्वर्येणावतरणम् ॥ तत्र हास्यङ्गारयोरर्पणविच्छेददीपनप्रशमन संयुक्तम् । करुणे विच्छेदप्रशमनार्पणदीपनानुबन्धबहुलम्। वीररौद्राद्भुतेषु विसर्गविच्छेदार्पणयुक्तम् । बीभत्सर्भयानकयोरिति । सर्वेषामप्येतेषां मन्द्रमध्यतारकृतः प्रयोगस्त्रिस्थानस्थो भवति । तत्र दूरस्थाभाषणे तारं शिरसा, नातिदूरे मध्यं कण्ठेन, पार्श्वतो मन्द्रमुरसा प्रयोजयेत्पाठ्यमिति ॥ मन्द्रात्तारं गच्छेत्ताराद्वा मन्द्रमिति । तदेवं ध्वनिधर्मविशेषस्य काकोः पीठः । धर्मत्वमवस्थितम् ॥
1
I
१. 'वात्सल्य' भरते. २ 'ख' भरते. ३. 'पाठ्यस्यैते' भरते. ४. 'लक्षणं च निबोधत' इत्यस्याग्रे भरते. ५. 'त्रासनार्थ वाद्येषु' भरते. ६. 'हखो' भरते. ७. 'विलम्बितो' भरते. ८. 'त्रिस्थान' भरते. ९. 'भयानकयोर्विसर्गविच्छेदाकाङ्क्षिण (?)प्रायम्' इति भरते उपलम्भादत्र पाठखुटितः प्रतीयते. १०. ' पाठ्यधर्मत्व' स्यात्.