________________
३ अध्यायः काव्यानुशासनम् ।
१६५ अत्र ध्रुवेवादिशब्दवद्यथाशब्दः संभावनं प्रतिपादयितुं नोत्सहते इत्यवाचकः । यथा वार्थान्तरन्यासे-- 'किमपेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः ।
प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ।' अत्र महीयस इत्येकवचनं न सामान्यमर्थरूपं व्यक्तमभिधातुं क्षमते इत्यवाचकत्वम् । बहुवचनस्यैव वीप्सासमानफलस्य स्फुटत्वेन तदभिव्यक्तिक्षमत्वात् । यथा--
'यावदर्थपदां वाचमेवमाधाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः ॥' सर्वादिशब्दोपादाने त्वेकवचनस्यापि न दोषः । यथा
'छायामपास्य महतीमपि वर्तमाना
मागामिनी जगृहिरे जनतास्तरूणाम् । सर्वोऽपि नोपनतमप्यपचीयमानं
___ वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥' वाक्यस्य यथा
'विभजन्ते न ये भूपमालभन्ते न ते श्रियम् ।
आवहन्ति न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ॥' अत्र विभजतिविभागार्थः सेवने, आलभतिविनाशार्थे लाभे, आवहतिः करोत्यर्थो धारणे, स्मरतिविस्मरणार्थः स्मरणेऽवाचकः ।
कल्पितार्थत्वादसमर्थम् । पदस्य यथा
'किमुच्यतेऽस्य भूपाल मौलिमालामहामणेः ।
सुदुर्लभ वचोबाणैस्तेजो यस्य विभाव्यते ॥ १. 'दसमर्थत्वम्' स्यात्.