SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३१८ काव्यमाला । नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चापि । अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम ||' 'यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैत्र । औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्ज्ञेयम् ॥ यदनार्थमथाहार्यं काव्यं प्रकरोत्यभृतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् || त्तस्याक्षेपात् । प्रसिद्धमपि वस्तु न निष्फलं व्युत्पत्तये भवतीत्यत आह-- नानाविभूतिभिर्युतमिति । धर्मार्थकाममोक्षविभावैः फलभूतैर्विचित्ररूपैर्युक्तम् । तत्राप्यर्थकामौ सर्वजनाभिलषणीयाविति तद्वाहुल्यं दर्शनीयमिति । ऋद्धिविलासादिभिरिति । ऋद्धिरर्थस्य राज्यादे: संपत्तिः । विलासेन कामो लक्ष्यते । आदिशब्दः प्रधानवाची | तत्प्रधानाभिः फलसंपत्तिभिर्युक्तमित्यर्थः । तेन राज्ञा सर्व राज्यं ब्राह्मणेभ्यो दत्त्वा वानप्रस्थं गृहीतमित्येवंप्रायं फलं नोपनिबद्धव्यम् । धर्ममोक्षवहुलमिति । दृष्टसुखार्थी हि वाहुल्येन लोक इति तत्रास्य प्रतीतिर्विरसी भवेत् । गुणैरिति || अप्रधानभूतानि यानि चेष्टितानि हेयानि प्रतिनायकगतागतान्यपनयप्रधानानि तैर्युक्तम् । तेषां पूर्वपक्षस्थानीयानां प्रतिक्षेपेण सिद्धान्तकल्पस्य नायकचरितस्य निर्वाहात् जनकोशादिसंपत्तिर्ऋद्धिः । कौमुदीमहोत्सवादयो विलासाः । संधिविग्रहादयो गुणा इति चाणक्यपरिया(?)वेदनमात्रफलम् । वस्तुशब्देन राजर्षिवंश्यचरितशब्देन च सर्वस्याप्यर्थस्य राशेः संग्रहात् । अवान्तरवस्तुसमाप्तौ विश्रान्ताय ये विच्छेदा अङ्कास्तैः पञ्चाद्यैर्दशाधरैः ये च निमित्तबलादप्रत्यक्षदृष्टानां चेष्टितानामावेदकाः प्रवेशकास्तैश्वाढ्यं तन्नाटकं नाम रूपकम् ॥ आत्मशक्त्येति | इतिहासादिप्रसिद्धिं निरस्यति। वस्त्विति । साध्यं फलम् । शरीरमिति । तदुपायम् । नायक' मिति । साधयितारम् । चकारः पूर्वसमुच्चये । द्वितीयस्त्वसमग्रसमुच्चये । एवकारः समुन्चयाभावे । उत्पत्तौ भवमौत्पत्तिकं निर्मितम् । तदयमर्थः -- त्रितयमपि यत्र विकृतं द्वयमेकं वा, अन्यत्तु पूर्वोपनिबद्धं तत्सर्व प्रकरणम् । भेदसप्तकमयम् । वस्त्वादिकं का व्याभिधेयमात्मशक्त्या प्रकुरुते यत्र काव्ये तत्प्रकरणमिति बुधैर्ज्ञेयमिति संवन्धः ॥ यत्र सर्वमुत्पाद्यं भवति तत्र योऽनुत्पाद्योंऽशः स कुत्रस्थो ग्राह्य इति दर्शयितुमाह-यदनार्षमिति । पुराणादिव्यतिरिक्तवृहत्कथाद्युपनिबद्धं मूलदेवतच्चरितादि ॥ आहार्यमिति । पूर्वकविकाव्याद्वाहरणीयं समुद्रदत्ततश्चेष्टितादि ॥ ननु च तत्रांशे कविकृतत्वाभावात्कथं प्रकरणवाचोयुक्तिरित्याह-उत्पन्नेति । पूर्वसिद्धे बीजं वस्तु च यत्र तादृशमपि तद्यदिति यस्मादभूतैर्वृहत्कथादौ काव्यान्तरे वा प्रसिद्धैर्गुणैर्युक्तं प्रकरोति तदिति तस्माद्धेतोरेतदपि प्रकरणम् । तेन बृहत्कथादिसिद्धस्य मूलदेवादेरधिकावापं कविशक्तिर्यदा विधत्ते १. 'कुरुते प्रभुत' भरते.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy